सामग्री पर जाएँ

साधितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साधितः, त्रि, (साध + णिच् + क्तः ।) दापितः । इत्यमरः । ३ । १ । ४० ॥ द्वे धनादिकं दापिते धुती इति ख्यातं यस्मै दत्तं तत्रेति रमानाथः । दण्डिते इति विद्याविनोदः । शोधितद्रव्ये इति नयनानन्दः । ददातेर्ञ्यन्तात् क्तः ह्री व्ली रीति पन् दैपो रूपमिति नयनानन्दः । दायित इति पाठ इति कलिङ्गपुरुषोत्तमौ । तत्र ञि दय ङ ग्रहणे गतौ वधे दाने इत्यस्मात् ञ्यन्तात् क्तः । साधेर्ञ्यन्तात् क्ते साधितः । इति भरतः ॥ “दायितो दापितोऽपि स्यात् साधितः शोधितो- ऽपि च ।” इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=साधितः&oldid=175887" इत्यस्माद् प्रतिप्राप्तम्