साधु

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुः, पुं, (साध्यति निष्पादयति धर्म्मादिकार्य्य मिति । साध + “कृवापाजीति ।” उणा० १ १ । इति उण् ।) उत्तमकुलोद्भवः । तत्पर्य्यायः ॥ महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५ सज्जनः ६ । इत्यमरः । २ । ७ । ३ ॥ कुलजः ७ साधुजः ८ कुलकः ९ कुलिकः १० । इति शब्द- रत्नावली ॥ कुल्यः ११ कौलेयकः १२ इति भरतः ॥ जिनः । मुनिः । इति हेमचन्द्रः ॥ * ॥ साधुलक्षणं यथा, -- “यथालब्धोऽरिसन्तुष्टः समचित्तो जितेन्द्रियः । हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ १ ॥ निर्वैरः सदयः शान्तो दन्भाहङ्कारवर्ज्जितः । निरपेक्षो मुनिर्व्वीतरागः साधुरिहोच्यते ॥ २ ॥ लोभमोहमदक्रोधकामादिरहितः सुखो । कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥ ३ ॥ समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः । सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥ ४ ॥ कृष्णार्पितप्राणशरीरबुद्धिः शान्तेन्द्रियस्त्रीसुतसम्पदादिः । आसक्तचित्तः श्रवणादिभक्ति- र्यस्येह साधुः सततं हरेर्यः ॥ ५ ॥ कृष्णाश्रयः कृष्णकथानुरक्तः कृष्णेष्टमन्त्रस्मृतिपूजनीयः । कृष्णानिशं ध्यानमनास्त्वनन्यो यो वै स साधुर्म्मुनिवर्य्यकार्ष्णः ॥” ६ ॥ इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥ अन्यच्च । “न प्रहृष्यति सम्माने नावमानेन कुप्यति । न क्नुद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥” इति गारुडे । ११३ । ४२ ॥ * ॥ तस्य स्वभावो यथा, -- “त्यक्तात्मसुखभोगेच्छाः सर्व्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥ तस्यार्जने महान् क्लेशः पालने च द्विजोत्तमाः । तथा सद्विनियोगाय विज्ञेथं गहनं नृणाम् ॥ एभिरन्यै स्तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजान् जयन्ति वै लोकान् प्राजापत्यादिकान् क्रमात् ॥ योषित्शुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा । कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्विजाः ॥ नातिक्ले शेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥” इति विष्णुपुराणे । ६ । २ । १२ -- २९ ॥

साधुः, त्रि, (साध्यति कार्य्यमिति । साध + उण् ।) वार्द्धुषिकः । चारुः । (यथा, महाभारते । १ । १०७ । ८ । “न किञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा ॥”) सज्जनः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधु वि।

कुलीनः

समानार्थक:महाकुल,कुलीन,आर्य,सभ्य,सज्जन,साधु

2।7।3।1।6

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

साधु वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।5

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

साधु वि।

रम्यम्

समानार्थक:साधु

3।3।101।2।2

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्. विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधु¦ त्रि॰ साध--उन्।

१ उत्तमकुलजाते अमरः।

२ सुन्दरे

३ उचिते च। स्त्रियां वा ङीप्।

४ मुनौ

५ जिने च पु॰हेमच॰
“न प्रहृष्यति सम्माने नापमाने च कुप्यति। न क्रुद्धः पुरुष ब्रूयादेतद्धि साधुलक्षणम्” गरुडपु॰उक्तधर्मयुते

६ जने

७ बार्द्धुषिके

८ मनोहरे मेदि॰। साधुलक्षणान्तरं यथा
“यथालब्धेऽपि सन्तुष्टः समचित्तो जिते-न्द्रियः। हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः। निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः। निरपेक्षो मु-निर्वीतरागः साधुरिहोच्यते। लोभमोहमदक्रोधकामादि-रहितः सुखी। कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः सम-दर्शनः” पद्मात्त॰ ख॰

९९ अ॰
“त्यक्तात्मसुखभोगेच्छः सर्वस-त्वसुखैषिणः। भवन्ति परदुःखेन साधवो नित्यदुःखिताः। परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि। नापेक्षन्तेमहात्मनः सर्वभूतहिते रताः। परार्थमुद्यताः सन्तःसन्तः किं किं न कुर्वते। तादृगप्यम्बुधेर्वारि जलदैस्तत्प्रदीयते। एक एव सतां मार्गो यदङ्गीकृतपालनम्। दहन्तमकरोत् क्राडे पावकं यदपांपतिः। षात्मानंषीडयित्वापि साधुः सुखयते परम्। ह्लादयन्नाश्रितान्वृक्षो दुःखञ्च सहते स्त्रयम्” वह्निपु॰।

९ व्याकरणव्यङ्ग्यसाधुताजात्याश्रये शब्दे
“अनपभ्रंशताऽ-नादिर्यद्वाऽभ्युदययोग्यता। व्याक्रियाव्यञ्जनीया वाजातिः कापीह साधुता” हरिः। तथा च अपभ्रंश-भिन्नत्वमनादित्वम् अभ्युदयसाधनप्रयोगबिषत्वं व्याक-रणव्यङ्ग्यजातिर्वा साधुता इति तदर्थः। स च ईश्वरसङ्के-ताश्रयः शब्द इति नैयायिकाः। तथा च यः शब्दो यस्मि-न्नर्थे ईश्वरेण सङ्केतितः स शब्दस्तदर्थे साधुः। वैयाकरण-मते यः शब्दः यस्मिन्नर्थे व्याकरणे व्युत्पादितः स शब्दस्तत्रसाधुः यथा
“कर्मणि द्वितीया” पा॰ द्वितीया कर्मार्थे साधुः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधु¦ Ind.
1. Well, well indeed.
2. Enough, away with.

साधु¦ mfn. (-धुः-धुः or ध्वी-धु)
1. Pleasing, beautiful.
2. Well-born, of honour- able descent.
3. Right, fit, proper.
4. Good, virtuous, pious, pure.
5. Pure, classical, (as applied to language.)
6. Excellent, good.
7. Eminent. m. (-धुः)
1. A Muni, a saint, a sage in general, one of subdued passions and contemplative habits.
2. A Jina, a deified saint venerated by the Jainas.
3. A usurer.
4. A good or honest man.
5. A merchant.
6. A derivative or inflected noun. f. (-धुः or -ध्वी)
1. A virtuous wife.
2. Name of a particular root. E. साध् to accom- plish or perfect, Una4di aff. उन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधु [sādhu], a. (-धु or -ध्वी f.; compar. साधीयस्; superl. साधिष्ठ) [साध्-उन्]

Good, excellent, perfect; यद्यत् साधु न चित्रे स्यात् क्रियते तत्तदन्यथा Ś.6.13; आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् 1.2.

Fit, proper, right; as in साधुवृत्त, साधुसमाचार.

Virtuous, righteous, honourable, pious.

(a) Kind, well-disposed; तदीयमाक्रन्दितमार्तसाधोः R.2.28; Pt.1.247. (b) Well-behaved (with loc.); मातरी साधुः Sk.

Correct, pure, classical (as language).

Pleasing, agreeable, pleasant; अतो$र्हसि क्षन्तुमसाधु साधु वा Ki.1.4.

Noble, well-born, of noble decent.

धुः A good or virtuous man; प्रत्यर्पयिष्यत्यनधां स साधुः R.13.65;2.62; एभिः साधो हृदय- निहितैर्लक्षणैर्लक्षयेवाः Me.82.

A sage, saint; साधोः प्रकोपि- तस्यापि मनो नायाति विक्रियाम् Subhāṣ.

A merchant; a jeweller; मुकुटे रोपितः काचश्चरणाभरणे मणिः । न हि दोषो मणेरस्ति किं तु साधोरविज्ञता H.2.72.

A Jaina saint.

A usurer, money-lender. -n.

The good; तयोः श्रेय आददानस्य साधु भवति Kaṭh,2.1.

A good act or thing.ind.

Well, well-done, very nice, bravo; साधु गीतम् Ś. 1; साधु रे पिङ्गल वानर साधु M.4.

Enough, away with.-Comp. -आचार a. well-conducted, pious, virtuous.-कारिन् a. skilled, clever. -कृत a. well-done. -कृत्यम् compensation, requital. -ज a. noble, of a noble family. -जात a. beautiful. -दर्शन a.

good-looking.

thoughtful, prudent. -देवी a mother-in-law. -धीa. kind, well-disposed. (-f.) a mother-in-law. -पुष्पम् a land-growing lotus; L. D. B. -फल a. having good results. -भावः kindness. -मत a. highly thought of or prized. -मात्रा the right measure. -वादः a cry of 'well done', a cry of approbation; सिद्धा माल्यैः साधुवादैर्द्वये$पि (आकिरन्ति) Śi.18.55. -वाहः, -वाहिन् m. a well-trained horse. -वृक्षः the Kadamba tree. -वृत्त a.

wellconducted, upright, virtuous; प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तयः Bh.2.85 (where the next sense is also intended).

well-rounded. (-त्तः) a virtuous man. (-त्तम्) good conduct, virtue, piety, righteousness; so साधुवृत्ति,-शील a. virtuous, righteous; यः सप्तवर्षाणि जुहोति तार्क्ष्यं हव्यं त्वग्नौ नियतः साधुशीलः Mb.3.186.16. -शुक्ल a. quite white. -संमत a. approved by the good. -सिद्ध a. quite finished, perfect.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधु mf( वी)n. straight , right RV. AV. BhP.

साधु mf( वी)n. leading straight to a goal , hitting the mark , unerring (as an arrow or thunderbolt) RV. S3Br.

साधु mf( वी)n. straightened , not entangled (as threads) Kaus3.

साधु mf( वी)n. well-disposed , kind , willing , obedient RV. R.

साधु mf( वी)n. successful , effective , efficient (as a hymn or prayer) RV. Ka1m.

साधु mf( वी)n. ready , prepared (as सोम) RV. AitBr.

साधु mf( वी)n. peaceful , secure RV.

साधु mf( वी)n. powerful , excellent , good for( loc. )or towards( loc. gen. , dat. acc. , with प्रति, अनु, अभि, परि, or comp. ) S3Br. etc.

साधु mf( वी)n. fit , proper , right VarBr2S.

साधु mf( वी)n. good , virtuous , honourable , righteous S3Br. Mn. MBh. etc.

साधु mf( वी)n. well-born , noble , of honourable or respectable descent W.

साधु mf( वी)n. correct , pure

साधु mf( वी)n. classical (as language) ib.

साधु m. a good or virtuous or honest man S3Br. Mn. MBh. etc.

साधु m. a holy man , saint , sage , seer Ka1lid.

साधु m. (with जैनs) a जिनor deified saint W.

साधु m. a jeweller Hit.

साधु m. a merchant , money-lender , usurer L.

साधु m. (in gram. accord. to some) a derivative or inflected noun

साधु m. a saintly woman W.

साधु m. a kind of root(= मेदा) L.

साधु n. the good or right or honest , a good etc. thing or act( साध्व् अस्तिwith dat. , " it is well with -- " ; साधु-मन्with acc. , " to consider a thing good , approve ") RV. etc.

साधु n. gentleness , kindness , benevolence S3Br. MBh. etc.

साधु n. well , rightly , skilfully , properly , agreeably (with वृत्and loc. , " to behave well towards " [once साधु, in RV. viii , 32 , 10 ] ; with कृ, " to set eight " ; with आस्, " to be well or at ease ") RV. etc.

साधु n. good! well done! bravo! S3Br. MBh. etc.

साधु n. well , greatly , in a high degree R. Ka1m. BhP.

साधु n. well , enough of. away with( instr. )! MBh. Pan5cat.

साधु n. well come on! (with Impv. or 1. pr. ) MBh. Ka1v. etc.

साधु n. assuredly , indeed R. Ka1m.

साधु etc. See. p. 1201 , col. 2.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(ब्रह्मचारि): He who has the means of विद्या; a ब्रह्मचारिन् well disposed to a guru; (साधुग्र- hasta)--the means of doing the Karmas ordained (साधु vaikha1nasa)--by performing penance in the forest (साधु yati) by endeavouring to apply himself to yoga. वा. ५९. २३-4.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀDHU : An incarnation of Śiva. The Brahmāṇḍa Purāṇa contains the following story about it.

When the Himālaya and Maināka mountains once began a very intense tapas, the Devas and Ṛṣis fearing great ruin to the world in case the mountains got salva- tion, sought Śiva's protection and prayed for a solution for the problem. So Śiva, in the guise of a brahmin named Sādhu, went to the mountains, spoke to them condemning Śiva and thus made them retract from their devotion to Śiva.


_______________________________
*1st word in right half of page 661 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=साधु&oldid=505517" इत्यस्माद् पुनः प्राप्तिः