साध्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्यः, पुं, (साध्यमस्त्यस्येति । अर्शआदित्वादच् ।) गणदेवताविशेषः । इत्यमरः । १ । १ । १० ॥ स तु द्वादशसंख्यकः । यथा, भरतः । “साध्या द्वादशविख्याता रुद्राश्चैकादश स्मृताः ॥” तेषां नामानि यथा, -- “मनो मन्ता तथा प्राणो नरोऽपानश्च वीर्य्यवान् । विनिर्भयो नयश्चैव दसो नारायणो वृषः । प्रभुश्चेति समाख्याताः साध्या द्वादश पौर्व्विकाः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ देवः । विष्कम्भादिसप्तविंशतियोगान्तर्गतैकविंश- योगः । इति मेदिनी ॥ तत्र जातफलम् । “असाध्यसाध्यः किल साध्यजातः शूरोऽतिधीरो विजितारिपक्षः । बुद्ध्या ह्युपायैः परिसाधितार्थः परं कृतार्थः सुतरां विनीतः ॥” इति कोष्ठीप्रदीपः ॥
साध्यः, त्रि, (साध + ण्यत् ।) साधनीयः । इति मेदिनी ॥ यथा, -- “ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके चार्थे प्रोक्ते साध्यं न सिध्यति ॥” इति मिताक्षराधृतकात्यायनवचनम् ॥ साधनार्हाभिमतः । स तु पक्षः । यथा, -- “प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥” साध्यं साधनार्हाभिमतं पक्षं विदुः । यद्यप्यन्नत्र साध्यं ज्ञाप्यं तद्विशिष्टधर्म्मी पक्ष इति भेद- स्तथाप्यत्र वाक्प्रत्याय्यर्णादिधर्म्मविशेषविशि- ष्टस्य पक्षतया धर्म्मिणोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरभेदाभिधानम् । इति व्यवहार- तत्त्वम् ॥ * ॥ अनुमितिविधेयः । यथा । साध्यता- वच्छेदकमिति अनुमितिविधेयतावच्छेदक- मित्यर्थः । इति सिद्धान्तलक्षणजागदीशीटीका ॥ मन्त्रविशेषः । यथा, -- “नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ॥ पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः । सिद्धः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी- षिभिः ॥ सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः । सुसिद्धो ग्रहणमात्रेण अरिर्मूलं निकृन्तति ॥” इति तन्त्रसारः ॥
