साध्यतावच्छेदक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्यतावच्छेदकम्, क्ली, (साध्यतामवच्छिनत्तीति । अव + छिद + ण्वुल् ।) अनुमितिविधेयांशे भासमानो धर्म्मः । यथा साध्यतावच्छेदकमिति अनुमितिविधेयतावच्छेदकमित्यर्थः । तथा चोक्तव्याप्तिज्ञानाद्दण्ड्यंशे दण्डत्वप्रकारिकादण्ड- त्ववत्त्वानित्येकानुमितिर्न तु दण्डिमान् इत्या- कारा दण्डप्रकारिकापि तस्य व्यापकतावच्छे- दकत्वेनाग्रहात् कारणवाधेन तदसम्भवादिति भावः । इति । सिद्धान्तलक्षणस्य जागदीशी टीका ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्यतावच्छेदक¦ पु॰ साध्यतामवच्छिनत्ति विशेषयति अव +[Page5280-a+ 38] छिद--ण्वुल्। येन रूपेण सम्बन्धेन वा यस्य साध्यतारूपाविषयता। तस्मिन्
१ सम्बन्धे
२ धर्मे। यथा वह्निवान्धूमादित्यत्र वह्निः साध्यः तस्य साध्यतां वह्नित्वमवच्छिन-त्तीति वह्नित्वं साध्यतावच्छेदकम्। एवं संयोग-सम्बन्धोऽपि।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साध्यतावच्छेदक¦ n. (-कं) The characteristic property of the major term, (in logic.)