सामग्री पर जाएँ

साध्यसिद्धिपादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साध्यसिद्धिपादः, पुं, (साध्यस्य सिद्धिर्यत्र । तादृशः पादः ।) व्यवहारस्य चतुर्थपादः । स च निर्णय- पादः । यथा । प्रत्यर्थिनोऽग्रतो लेख्यमिति भाषापादः प्रथमः । श्रुतार्थस्योत्तरं लेख्यमित्यु- त्तरपादो द्वितोयः । ततोऽर्थो लेखयेत् सद्य इति क्रियापादस्तृतीयः । तत्सिद्धौ सिद्धिमाप्नोति इति साध्यसिद्धिपादश्चतुर्थः । यथा, -- “भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥” इति मिताक्षरा ॥

"https://sa.wiktionary.org/w/index.php?title=साध्यसिद्धिपादः&oldid=175913" इत्यस्माद् प्रतिप्राप्तम्