सामग्री पर जाएँ

सानन्दूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सानन्दूरः, पुं, तीर्थविशेषः । यथा, -- धरण्युवाच । “द्वारकातः परं श्रेष्ठं अस्ति गुह्मं परं क्वचित् ततो महीवचः श्रुत्वा विष्णुः कमललोचनः । वाराहरूपी भगवान् प्रत्युवाच वसुन्धराम् ॥ वराह उवाच । सानन्दूरेति विख्यातं भूमे ! गुह्यं परं मम । उत्तरे तु समुद्रस्य मलयस्य च दक्षिणे । तत्र तिष्ठामि वसुधे उदीचीदिशमाश्रितः ॥ प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका । आयसीं तां वदन्त्येके अन्येताम्रसयीं तथा ॥ कांस्यीं रीतिमयीमन्ये केवित् सीसकनिर्मिताम् शिलामयीमित्यपरे महदाश्चर्य्यरूपिणीम् । तत्र स्थानानि मे भूमे कथ्यमानं मया शृणु ॥ मनुजा यत्र मुच्यन्ते गताः संसारसागरम् । तत्राश्चर्य्यं प्रवक्ष्यामि सानन्दूरे यशस्विनि ! ॥ सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे । यत्र रामगृहं नाम मम गुह्यं यशस्विनि ॥ तत्रापि शृणु चाश्चर्य्यं यच्चापि परिवर्त्तते । एवं तत्र लता वृक्षमुच्चस्थूलमहाद्रुमम् । समुद्रमध्ये तिष्ठन्तं सोऽपि तत्र न पश्यति ॥ * ॥ अन्यच्च ते प्रवक्ष्यामि महाश्चर्य्यं शृणुष्व मे । मम भक्तांश्च पश्यन्ति तिष्ठन्तो हि स्वकर्म्मणा ॥ बहुमत्स्यसहस्राणि कोट्यो ह्यर्व्वुदमेव च । क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्म्मिणा ॥ एकस्तत्र स्थूलमत्स्यो भूमिचक्रेण चाङ्कितः । तावत् कश्चिन्न गृह्णाति यावत्तेन न भक्षितः ॥ तत्र रामसरं नाम तस्मिन् क्षेत्रे परं मम । अगाधञ्चाप्यपारञ्च रक्तपद्मविभूषितम् ॥ तत्र स्नानन्तु कुर्व्वीत एकरात्रोषितो नरः । बुधस्य भवनं गत्वा मोदते नात्र संशयः ॥ अथ प्राणान् प्रमुच्येत रम्ये रामसरे तथा । बुधस्य भवनं त्यक्त्वा मम लोकञ्च गच्छति ॥ तत्र रामसरे भूमे महाश्चर्य्यं शृणुष्व मे । मनुजास्तत्र पश्यन्ति मम कर्म्मपरायणाः ॥ सत्सरः क्रोशविस्तारं बहुगुल्मलताकुलम् । मनोज्ञं रमणीयञ्च जलजैश्चापि संवृतम् ॥ तत्र मूढालिपद्मानि द्योतयन्ति दिशो दश । एकन्तु दृश्यते श्वेतमेकं रुक्ममयं तथा ॥ तत्र ब्रह्मसरं नाम गुह्यं क्षेत्रे परं मम । उत्तरेण तु पार्श्वेन मम क्षेत्रस्य सुन्दरि ॥ तत्र कुण्डं महाभागे पर्व्वते च समाश्रितम् । धारा यत्र पतेच्चैव स्थूला मुषलसन्निभा ॥ तत्र स्नानञ्च कुर्व्वीत षष्ठकालोषितो नरः । ब्रह्मलोकं समासाद्य मोदते नात्र संशयः ॥ अथ प्राणान् प्रमुच्येत तत्र ब्रह्मसरे मम । ब्रह्मणा समनुज्ञातो मम लोकञ्च गच्छति ॥ तत्राश्चर्य्यं महाभागे रम्ये ब्रह्मसरे शृणु । मद्भक्ता यानि पश्यन्ति घोरं संसारमोक्षणम् ॥ चतुर्व्विंशतिद्वादश्यां सा धारा पृथलेक्षणे । मध्याह्ने पतते भूमे यावत् सूर्य्यः स तिष्ठति ॥ परावृत्ते तु मध्याह्ने सा धारा न पतेद्भुवि । एवं तत्र महाश्चर्य्यं पुण्ये ब्रह्मसरे मम ॥” इति वाराहे सानन्दूरमाहात्म्यनामाध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सानन्दूर¦ पु॰ तीर्थविशेषे
“सानन्दूरेति विख्यातं भूमे! गुह्यंपरं मम। उत्तरे तु समुद्रस्य मलयस्य च दक्षिणे। तत्रतिष्ठाभि वसुधे! उदीचीं दिशमाश्रितः। प्रतिमा वैमदीयास्ति नात्युच्चा नातिनीचका। आयसीं तां वद-न्त्येके अन्ये ताम्रमयीं तथा। कास्यां रोतिमयीमन्येकेचित् सीसकनिर्मिताम्। शिलामयीमित्यपरे महा-श्चर्य्यस्वरूपिणीम्” वराहपु॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सानन्दूर N. of a तीर्थCat.

"https://sa.wiktionary.org/w/index.php?title=सानन्दूर&oldid=222928" इत्यस्माद् प्रतिप्राप्तम्