सामग्री पर जाएँ

सानुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सानुः, पुं, क्ली, (सन्यते सेव्यते मुनिप्रभृतिभिरिति सन सेवायाम् + “दॄसनिजनीति ।” उणा० १ । ३ । इति ञुण् ।) पर्व्वतसमभूभागः । तत्पर्प्यायः । स्नुः २ प्रस्थः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा, रामायणे । २ । ३१ । २७ । “भवास्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्व्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥”) वनम् । वात्या । मार्गः । अप्रम् । कोविदः । इति मेदिनी ॥ अर्कः । पल्लवः । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=सानुः&oldid=175925" इत्यस्माद् प्रतिप्राप्तम्