सान्तपन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सान्तपनम्, क्ली, (सन्तपतीति । सम् + तप + ल्युः । ततः स्वार्थे अण् ।) व्रतविशेषः । इत्यमरः । २ । ७ । ५२ ॥ यथा, -- “गोमूत्रं गोमयं क्षिरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥” इति मानवे ११ अध्यायः ॥ गोमूत्रामति । गोमूत्रादि एकीकृत्य एकस्मिन्न- हनि भक्षयेत् नान्यत् किञ्चिदद्यात् अपरदिने चोपवासः । इत्येतत् सान्तपनं कृच्छ्रं स्मृतम् । यदा तु गोमूत्रादिषट् प्रत्येकं षड्दिनान्युप- भुज्यते सप्तमे दिने चोपवासः तदा महासान्त- पनं भवति । तथा च याज्ञवल्क्यः । “कुशोदकञ्च गोक्षीरं दधि मूत्रं शकृद् घृतम् जग्ध्वा परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन् ॥ पृथक्सान्तपनद्रव्यैः षडहःसोपवासिकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम् ॥” इति कुल्लूकभट्टः ॥ गारुडे १०५ अध्यायेऽप्येवम् ॥ (सन्तापके, त्रि ॥ यथा, ऋग्वेदे । ७ । ५९ । ९ । “सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन ॥” “सान्तपनाः शत्रूणां संतापका हे मरुतः ॥” इति तद्भाष्ये सायणः ॥ सन्तपनस्य सूर्य्यस्येद- मिति । अण् । सूर्य्यसम्बन्धिनि च त्रि । यथा, वाजसनेयसंहितायाम् । १७ । ८५ । “स्वतवा~श्च प्रघासी च सान्तपनश्च गृहमेधी च ।” ‘सन्तपनः सूर्य्यस्ततसम्बन्धी सान्तपनः ।’ इति तद्भाष्यम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सान्तपन¦ न॰ सन्तापयति सम् + तप॰ णिच् ल्युट्--स्वार्थेऽण्सन्तपनाय साधु अण्--वा।
“गोमूत्रं गोमय क्षीरं दधि सर्पिः कुशोदकम्। एक-रात्रोपवासश्च कृच्छ्रं सान्तपनं विदुः” मनूक्ते द्व्यह-साध्ये व्रतभेदे एकदिने गोमूत्रादिषट्कमात्रपानं परदिनेउपवास इति द्व्यहसाध्यताऽस्य।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सान्तपन¦ n. (-नं)
1. A sort of penance; the lighter kind is feeding on a mixture of curds, &c. for one day and fasting the next; the severer is feeding six successive days, severally, on the same articles, or on cow's urine, cow's ordure, milk, curds, Ghee, and water in which Kus4a grass has been steeped, and fasting on the seventh. E. सम् completely, तपन austerity, अण् added.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सान्तपनम् [sāntapanam], A kind of rigid penance; cf. गोमूत्रं गोमयं क्षीरं दधि सर्पिः कृशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ Ms.11.212.