सान्निध्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सान्निध्यम्, क्ली, (सन्निधिरेव । सन्निधि + “चातु- र्व्वर्ण्यादीनां स्वार्थ उपसंख्यानम् ।” ५ । १ । १२४ । इत्यस्य वार्त्तिकोक्त्या स्वार्थे व्यञ् ।) निकटम् । यथा, -- “अच्चेकस्य तपोयोगात् अर्च्चनस्यातिशायनात् । आभिरूप्याच्च विम्बानां देवः सान्निध्य- मृच्छति ॥” इति तिथ्यादितत्त्वम् ॥
