सामग्री पर जाएँ

सामगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सामगः, पुं, (साम गायतीति । गै शब्दे + टक् । सामवेदी ब्राह्मणः । इति जटाधरः ॥ (विष्णुः । इति महाभारतम् । १३ । १४९ । ७५ ॥ * ॥ सामवेदज्ञे, त्रि । यथा, भागवते । १ । ४ । २१ । “तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषामुत ॥”)

"https://sa.wiktionary.org/w/index.php?title=सामगः&oldid=175986" इत्यस्माद् प्रतिप्राप्तम्