सामग्री पर जाएँ

सामन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सामन्तः, पुं, (समन्तायाः संलग्नैकदेशाया भूमे- रयमिति । समन्ता + तस्येदमिति अन् । सम- न्तात् भवः । तत्र भव इति अण् वा ।) स्ववि- षयानन्तरराजा । सम् संलग्नोऽन्त एकदेशो यस्याः सा समन्ता स्वविषयानन्तरा भूमिः तस्या ईश्वरा इति ष्णे सामन्ताः । इत्यमरटीकायां भरतः ॥ (यथा, रघुः । ५ । २८ । “सामन्तसम्भवनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥” सीमान्तरभवे, त्रि । यथा, मनुः । ८ । २५८ । “साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौ ॥” “ग्रामसामन्ताः सीमान्तरवासिनः प्रष्टव्याः ।” इति मेधातिथिः ॥ “समन्तभवाः सामन्तास्त- द्वासिनश्चत्वारो ग्रामवासिनः ।” इति तट्टी- कायां कुल्लू कः ॥)

"https://sa.wiktionary.org/w/index.php?title=सामन्तः&oldid=175999" इत्यस्माद् प्रतिप्राप्तम्