सामग्री पर जाएँ

सामाजिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सामाजिकः, पुं, (समाजं समवतीति । समाज + “समवायान् समवेति ।” ४ । ४ । ४३ । इति ठक् । यद्वा, समाजं रक्षतीति । “रक्षति ।” ४ । ४ । ३३ । इति ठक् ।) सभ्यः । इत्यमरः । २ । ७ । १६ ॥ (यथा, साहित्यदर्पणे । ३ । २२९ । “सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥”) समाजसम्बन्धिनि सभासम्बन्धिनि च त्रि ॥ (यथा, साहित्यदर्पणे । ३ । ३९ । “ननु कथं रामादिरत्याद्युद्बोधकारणैः सीता- दिभिः सामाजिकरत्याद्युद्बोध इत्युच्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=सामाजिकः&oldid=176011" इत्यस्माद् प्रतिप्राप्तम्