सामग्री पर जाएँ

सामान्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सामान्यम्, क्ली, (समान एव । स्वार्थे ष्यञ् ।) जातिः । यथा, -- “जातिर्जातञ्च सामान्यं व्यक्तिस्तु पृथगात्मिका” इत्यमरः । १ । ४ । ३० ॥ तद्द्विविधं यथा, भाषापरिच्छेदे । “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ परभिन्ना च या जातिः सैवापरतयोच्यते । व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥” तल्लक्षणं यथा । नित्यत्वे सत्यनेकसमवेतत्वम । अनेकसमवेतत्वं संयोगादीनामप्यस्ति अतः सत्यन्तं नित्यत्वे सति समवेतत्वंगगनपरिमाणा दीनामप्यस्ति अत उक्तं अनेकेति नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावस्याप्यस्ति अतोवृत्ति- सामान्यमुपेक्ष्य समवेतत्वमुक्तम् । एकव्यक्ति- वृत्तिस्तु न जातिः । तथा चोक्तम् । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥” एकव्यक्तिकत्वात् आकाशत्वं न जातिः । तुल्य- वृत्तिकत्वात् घटत्वं कलसत्वं न जातिद्वयम् । संकीर्णत्वात् भूतत्वं मूर्त्तत्वं न जातिः । अन- वस्थाभयात् सामान्यत्वं न जातिः । विशेषस्य व्यावृत्तस्वभावस्य रूपहानिः स्यादतो विशेषत्वं न जातिः । समवायसम्बन्धाभावात् समवायो न जातिः । द्रव्यादित्रिकवृत्तिरिति परत्वं अधिकदेशवृत्तित्वं अपरत्वमल्पदेशवृत्तित्वम् । सकलजात्यपेक्षया अधिकदेशवृत्तित्वात् सत्तायाः परत्वम् । एतद्बोधनाय द्रव्यादीति । तदपेक्षया चान्यासां जातीनां अपरत्वम् । परभिन्ना सत्ता- भिन्ना । व्यापकत्वात् परापि स्यात् व्याप्यत्वाद- परापि च । पृथिवीत्वाद्यपेक्षया व्यापकत्वात् अधिकदेशवृत्तित्वात् द्रव्यत्वस्य परत्वम् । सत्तापे क्षया अल्पदेशवृत्तित्वाद्द्रव्यत्वस्य अपरत्वञ्च । तथा च धर्म्मद्वयसमावेशात् उभयमविरुद्धम् । इति सिद्धान्तमुक्तावली ॥ (सादृश्यम् । समा- नत्वम् । यथा, महाभारते । १२ । २२८ । ४ । “सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः । ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः । विचचार यथाकामं त्रिषु लोकेषु नारदः ॥”)

सामान्यम्, त्रि, (समानस्य भावः । समान + ष्यञ् ।) अनेकसम्बन्ध्ये कवस्तु । साधारणम् । इत्यमरः । ३ । १ । ८२ ॥ यथा, देवलः । “सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः । अप्रजायां हरेद्भर्त्ता माता भ्राता पितापि वा ॥” इति दायतत्त्वम् ॥ (यथा च कुमारे । ७ । ४४ । “एकैव मूर्त्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचित् वेधास्तयोस्तावपि धातुराद्यौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=सामान्यम्&oldid=176013" इत्यस्माद् प्रतिप्राप्तम्