सामान्यलक्षणा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्यलक्षणा, स्त्री, (सामान्यं साधारणधर्म्मः लक्षणं यस्याः ।) अलौकिकसन्निकर्षविशेषः । स तु आश्रयज्ञापकसामान्यज्ञानम् । यथा । एकघटदर्शने सकलघटज्ञानं भवति ईदृशघट- त्वादिज्ञानम् । तत्समाणं यथा, भाषापरि- च्छेदे । “अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः । सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा ॥ आसर्त्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते । तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्यलक्षणा¦ स्त्री सामान्यं साधारणधर्मः लक्षणंयस्याः। न्यायोक्ते अलौकिकप्रत्यक्षसाधने उपायभेदेसन्निकर्षशब्दे दृश्यम्। यथा एकघटज्ञाने घटत्वरूपसा-मान्यधर्मज्ञानात् सकलस्य घटत्ववतो ज्ञानम्। तस्याः प्रत्यासत्तित्व मणिकृता व्यवस्थापितं यथा
“व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधूमादि-विषयकः कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनु-मितिः सा चेन्द्रियसम्बद्धविशेषणतातिरिक्तैव वा तद्-विशेष्यकप्रत्यक्षे तदिन्द्रियसन्निकर्षस्य हेतुत्वेनानागतादौसंयोगादेरभावादिति वदन्ति”। [Page5283-b+ 38] तस्याः अप्रत्यासत्तित्वमाशङ्क्य सिद्धान्तितं तत्रैव चिन्तमणि-कृता
“उच्यते यदि सामान्यलक्षणा नास्ति तदानुकूलत-र्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् प्रसिद्ध-धूमे वह्निसम्बन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्यमानाभावेनाज्ञानात् सामान्येन तु सकलधूमोपास्थितौधूमान्तरे विशेषादर्शनेन संशयो युज्यते”। अत्र दोधितिः
“अत्र च सामान्यं लक्षणं स्वरूपं यस्याइत्यर्थे सामान्यमेव प्रत्यासत्तिः सामान्यं लक्षणं निरू-पकं यस्या इत्यर्थे तु तज्ज्ञानम्। तत्राद्यमाह साचेन्द्रियेति इन्द्रियेण सम्बद्धं धूमादि तस्य विशेषणं तद्-विशेष्यकज्ञानप्रकारो धूमत्वादिरित्यर्थः। विशेषणतेत्यत्रभावार्थो न बिवक्षितः तत्र विशेषणत्वं यस्या इति बहु-व्रीहिवां सम्बद्धपदस्यैव वा परम्परासम्बन्धस्तत्सम्बन्ध-विशेष्यकज्ञानप्रकारोऽर्थः तथाच सैव विशेषणतेत्यर्थः। अत्र च बहिरिन्द्रियस्य लौकिकः सम्बन्धो ज्ञानस्यतदिन्द्रियजन्यत्वञ्च नियामकम् एवञ्चाणुत्वेन यत्किञ्चि-दणूपस्थितावपि सकलाणुगोचरो मानलो बोध इतिवदन्ति एतेन धूलीपटले धूमभ्रमे तत्र च वह्निव्याप्तिग्रहेतत्रासता धूमत्वेन धूमेषु व्याप्त्यग्रहाद्धूमदर्शनाद्वह्न्यनु-मितिर्न स्यात् हेत्वभावेन परामर्शानुत्पादात् किञ्च धर्मिशिदोषवशान्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामा-न्येन गृह्यमाणेन वा लौकिकसन्निकर्षविगमेऽपि चा-क्षुषज्ञानापत्तिरिति परास्तम्। सामान्यञ्च सखण्डा-खण्डभेदेन द्वेधा सखण्डे चाखण्डमेव परम्परया सम्बद्धंप्रत्यासत्तिः येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञा-यते तेन सम्बन्धेनाधिकरणानां ग्रत्यासत्तिरिति”। दीधीतिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वंनिराकृतं तत्र दृश्यम्। तच्च विस्तरभयादिह नोक्तम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्यलक्षणा/ सामान्य--लक्षणा f. (in न्याय) one of the three अलौकिकor transcendental perceptions or संनिकर्षs MW.
सामान्यलक्षणा/ सामान्य--लक्षणा f. N. of various works.
