सामान्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्या, स्त्री, (सामान्य + टाप् ।) साधारणी नायिका । अस्या लक्षणम् । धनमात्रलाभार्थ- सकलपुरुषाभिलासा ॥ सा त्रिधा । अन्यसम्भोग- दुःखिता । वक्रोक्तिगर्व्विता । मानवती । वक्रोक्तिगर्व्वितापि द्विविधा । प्रेमगर्व्विता सौन्दर्य्यगर्व्विता च । एता नायिका अवस्थाभेदेन प्रत्येकं अष्टप्रकारा भवन्ति । यथा ! प्रोषित- भर्त्तृका १ खण्डिता २ कलहान्तरिता ३ विप्र- लब्धा ४ उत्कण्ठिता ५ वासकसज्जा ६ स्वाधीन- पतिका ७ अभिसारिका ८ । इति रस- मञ्जरी ॥ (यथा च साहित्यदर्षणे । ३ । १११ -- ११२ । “धीरा कलाप्रगल्भा स्याद्वेश्या सामान्य- नायिका । निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि । वित्तमात्रं समालोक्य सा रागं दर्शयेद् बहिः ॥ काममङ्गीकृतमपि परिक्षीणधनं नरम् । मात्रा निष्क्रामयेदेषा पुनः सन्धानकाङ्क्षया ॥ तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा । लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः ॥ एषापि मदनासक्ता क्वापि सत्यानुरागिणी । रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥” पण्ड्र को वातरोगपण्ड्रादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्र रागहीना यथा नटकमेलकादौ मदनमञ्जर्य्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः । पुनश्च । “अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ॥ स्वाधीनभर्त्तृका तद्वत् खण्डिताथाभिसारिका कलहान्तरिता विप्रलब्धा प्रोषितभर्त्तृका । अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥” एतासां लक्षणाणि तु तत्तच्छ्यब्दे विशेषतो द्रष्टव्यानि ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्या¦ स्त्री समानैव स्वार्थे ष्यञ् अजा॰ टाप्। साधा-रणस्त्रियां वेश्यायाम्
“धनमात्रलाभार्थं सकलपुरुषाभि-लाषा। सा त्रिधा। अन्यसम्भोगदुःखिता भानवतीवक्रोक्तिगर्विता च सापि द्विविधा। प्रेमगर्विता सौन्दर्य्यगर्विता च” रसमञ्जरी।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामान्या f. a common female , prostitute L.
