सामग्री पर जाएँ

सामुद्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सामुद्रम्, क्ली, (समुद्रे भवम् । अण् ।) समुद्र- लवणम् । इति हेमचन्द्रः ॥ करकच् इति भाषा । तत्पर्य्यायः । “सामुद्रं यत्तु लवणं त्रिकुटं कडकञ्च तत् ॥” इति रत्नमाला ॥ अस्य गुणाः । “सामुद्रं लवणं पाके नात्युष्णमविदाहि च । भेदनं मधुरं स्निग्धं शूलघ्नं नातिपित्तलम् ॥” इति राजवल्लभः ॥ अन्यत् समुद्रलवणशब्दे द्रष्टव्यम् ॥ * ॥ समुद्रफेनम् । इति राजनिर्घण्टः ॥ (समुद्रेण ऋषिणा प्रोक्तमिति । अण् ।) देहचिह्नम् । इति मेदिनी ॥ (तल्लक्षणान्वितग्रन्थविशेषः । इति केचित् ॥) समुद्रजाते, त्रि । इति च मेदिनी ॥ (पुं, समुद्रगामी बणिक् । यथा, याज्ञवल्क्ये । २ । ३८ । “कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु ॥” मशकविशेषः । यथा, सुश्रुते । ५ । ८ । “मशकाः सामुद्रः परिमण्डलो हस्तिमशकः कृष्णः पार्व्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डू- र्दंशः शोफश्च । पार्व्वतीयस्तु कीटैः प्राणहरै- स्तुल्यलक्षणः ॥” * ॥ देशविशेषः । यथा, मार्क- ण्डेये । ५८ । १३ । “प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषा- दंकाः । * * * * वर्द्धमानाः कोशलाश्च मुखे कूर्म्मस्य संस्थिताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सामुद्रम्&oldid=176030" इत्यस्माद् प्रतिप्राप्तम्