साम्परायिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साम्परायिकम्, क्ली, (संपरायाय विपदे प्रभव- तीति । संपराय + “तस्मै प्रभवति सन्तापा- दिभ्यः ।” ५ । १ । १०१ । इति ठञ् ।) युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (सम्पराय उत्तर- काले हितम् । सम्पराय + ठक् ।) पार- लौकिके, त्रि । यथा, -- “प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम् ॥” इति मनुः । ११ । ३० । (सम्परायं युद्धमर्हतीति । तदर्हतीति ठक् । युद्धार्हे, त्रि । यथा, रघुः । १७ । ६२ । “पित्रा संवर्द्धितो नित्यं कृतास्त्रः साम्परायिकः तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥”)
