सामग्री पर जाएँ

सायंसन्ध्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सायंसन्ध्या, स्त्री, (सायं सायाह्ने या सन्ध्या ।) सायंकालोपास्या देवता । सायंकालकर्त्तव्यो- पासना । सायंसन्ध्योपासनाकालश्च । तत्प्रमाणं सन्ध्याशब्दे द्रष्टव्यम् । पश्चिमा सन्ध्या । तस्या उत्पत्तिर्यथा, -- मार्कण्डेय उवाच । “नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना । ततः पुरोडाशमयं तच्छरीरमभूत् क्षणात् ॥ महामुनेर्म्महायज्ञे तस्मिन् विश्वोपकारिणि । नाग्निः क्रव्यादतां यातीत्येतदथ तथा कृतम् ॥ एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत । सन्ध्याप्यगच्छद्यत्रेजे तत्र मेधातिथिर्मुनिः ॥ अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता । प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मनेः ॥ वशिष्ठे न पुरा या तु वर्णीभूता तु सा सुता । उपदिष्टा तपश्चर्त्तुं वचनात् परमेष्ठिनः ॥ तमेव कृत्वा मनसि तपश्चर्य्योपदेशकम् । पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥ समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता । तदा विष्णोः प्रसादेन सा विवेश विधेः सुता ॥ तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः । दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् ॥ वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले । शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ॥ सूर्य्यो द्विधा विभज्याथ तत्शरीरं तदा रथे । स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥ यदूर्द्धभागं तस्यास्तु शरीरस्य द्विजोत्तमाः । प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ॥ यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा । सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा ॥ सूर्य्योदयाच्च प्रथमं यदा स्यादरुणोदयः । प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥ अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा । उदेति सायंसन्ध्या सा पितॄणां मोदकारिणी ॥” इति श्रीकालिकापुराणे अरुन्धतीजन्मकथने २२ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सायंसन्ध्या¦ स्त्री सायम् दिनान्ते सन्ध्या, तत्र सन्ध्यायतेसम् + ध्यै--घञर्थे क वा।

१ दिनान्तसन्ध्यायाम् अमरः।

२ दिनान्ते उपास्यदेवताभेदे च। भावे अङ्।

३ तत्रो-पासनायाम्।

"https://sa.wiktionary.org/w/index.php?title=सायंसन्ध्या&oldid=224924" इत्यस्माद् प्रतिप्राप्तम्