सामग्री पर जाएँ

सायन्तनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सायन्तनः, त्रि, (सायं भवः । सायम् + “सायं- चिरंप्राह्लेप्रागव्ययेभ्यष्ट्युढ्युलौ तुट् च ।” ४ । ३ । २३ । इति ढ्युल् तुट् च ।) सायंकालभवः । यथा, -- “सन्ध्यां सायन्तनीं कुर्य्यात् द्वादश्यादिष्वपि प्रिये । अकुर्व्वन्निरयं याति यतो नित्यागमक्रिया ॥” इति बृहन्नीलतन्त्रे प्रथमपटलः ॥

"https://sa.wiktionary.org/w/index.php?title=सायन्तनः&oldid=176064" इत्यस्माद् प्रतिप्राप्तम्