सामग्री पर जाएँ

सायाह्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सायाह्नः, पुं, (सायमह्नः । “संख्याविसायेति ।” ६ । ३ । ११० । ज्ञापकात् समासः ।) पञ्चधा- विभक्तदिनपञ्चमांशः । दिवसस्य शेषमूहूर्त्त- त्रयम् । यथा, -- “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तं स्यादपराह्लस्ततः परम् ॥ सायाह्नस्त्रिमुहूर्त्तं स्यात् श्राद्धं तत्र न कारयेत् राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वम् ॥ तत्पर्य्यायः । “सायो दिनान्तः सायाह्नो विकालः सायमेव च” इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=सायाह्नः&oldid=176066" इत्यस्माद् प्रतिप्राप्तम्