सामग्री पर जाएँ

सारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारः, पुं, (सृ + “सृ स्थिरे ।” ३ । ३ । १७ । इति घञ् ।) बलम् । (यथा, महाभारते । १ । १५५ । २३ । “तरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥”) स्थिरांशः । इत्यमरः । ३ । ३ । १७० ॥ (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥”) मज्जा । इत्यमरः । २ । ४ । १२ ॥ वज्रक्षारम् । इति राजनिर्घण्ठः ॥ वायुः । इति जटाधरः ॥ रोगः । इति धरणिः ॥ पाशकः । इति शब्द- रत्नावली ॥ दध्युत्तरम् । इति शब्दचन्द्रिका ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७३१ । “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥” यथा, -- “राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनासर्व्वस्वम् ॥”)

सारः, त्रि, (सृ + घञ् ।) अतिदृढः । इति शब्दरत्नावली ॥ वरः । श्रेष्ठः । इत्यमरमेदिनी- करौ ॥ यथा, -- “सर्व्वसारो यथा कृष्णो व्रतानां पुण्यकं तथा ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३ । ३० ॥ अपि च । श्रीमार्कण्डेय उवाच । “जगत् सर्व्वन्तु निःसारमनित्यं दुःखभाजनम् । उत्पद्यते क्षणादेतत् क्षणादेतत् विपद्यते ॥ यथैवोत्पद्यते सारान्निःसारं जगदञ्चसा । पुनस्तस्मिन्निलीयन्ते महाप्रलयसङ्गमे ॥ उत्पत्तिप्रलयाभ्यान्तु जगन्निसारतां हरिः । शम्भवे दर्शयामास भावेन जगतां पतिः ॥ एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् । अद्वैतमव्यग्रमचिन्त्यरूपं सारन्त्वेकं नास्ति सारं त्वदन्यत् ॥ यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात् तत्पश्चात् स्थितञ्च । आकाशवन्मेघजालस्य धृत्या यद्विश्वं वै ध्रियते तच्च सारम् ॥ अष्टाङ्गयोगैर्यदाप्तु मिच्छन् योगी युनक्त्यात्मरूपं सदैव । निवर्त्तते प्राप्य यन्नेह लोके तद्वै सारं सारमन्यन्न चास्ति ॥ सारो द्वितीयो धर्म्मस्तु यो नित्यप्राप्तये भवेत् । यो वै निवर्त्तको नाम तत्रासारः प्रवर्त्तकः ॥ सर्व्वं क्षरति लोकेऽस्मिन् धर्म्मो नैव च्युतो भवेत् स्वधर्म्माद्यो न चलति स एवाक्षर उच्यते ॥ एतद्वः कथितं सारं निःसारञ्च यथा जगत् । यथा स्वयं ददर्शाशु शम्भुर्ज्ञानेन स्वेऽन्तरे ॥ एतद्वै दर्शयामास स विष्णुर्जगतां पतिः । स्वयं जग्राह मनसा ध्यानेनात्मनि शङ्करः ॥ सारं तत्त्वं परमं निष्कलं य- म्मूर्त्त्या दीनं मूर्त्तिमान् धर्म्म एषः । सारोऽन्योऽसौ सारहीनं तदन्यत् ज्ञात्वैवेथ्यं याति नित्यं महाधीः ॥” इति श्रीकालिकापुराणे २७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सारः&oldid=176075" इत्यस्माद् प्रतिप्राप्तम्