सामग्री पर जाएँ

सारङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्गः, पुं, (सरतीति । सृ गतौ + “सृवृञो- र्वृद्धिश्च ।” उणा० १ । १२१ । इति अङ्गच् । वृद्धिश्च ।) चातकपक्षी । इत्यमरः । २ । ५ । १७ ॥ (यथा, रामायणे । २ । ६३ । १६ । “उष्णमन्तर्द्दधे सद्यः स्निग्धा ददृशिरे घनाः । ततो जहृषिरे सर्व्वे भेकसारङ्गवर्हिणः ॥”) हरिणः । (यथा, भट्टिः । ३ । २६ । “गोमायुसारङ्गगणाश्च सम्यक् नायासिषुर्भीममरासिषुश्च ॥”) मातङ्गजः । इति मेदिनी ॥ पक्षिभेदः । भृङ्गः । इति विश्वः ॥ यथा, -- “नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् ॥” इति श्रीभागवते । १ । १८ । ७ ॥ “ननु अधर्म्महेतुं कलिं सर्व्वथा किं न हत्वान् तत्राह नानुद्वेष्टीति । सारङ्गो भ्रमर इव सार- ग्राही । सारमाह यत् यस्मिन् कुशलानि पुण्यानि आशु संकल्पमात्रेण फलन्ति इतराणि पापानि आशु न सिध्यन्ति यतस्तानि कृतान्येव सिध्यन्ति न तु संकल्पितमात्राणीति ।” इति श्रीधरस्वामी ॥ * ॥ छत्रम् । राजहंसः । चित्र- मृगः । (यथा, महाभारते । ७ । २२ । २१ । “आक्रीडन्तो वहन्ति स्म सारङ्गशवला हयाः ॥”) वाद्यभेदः । अंशुकम् । इति शब्दरत्नावली ॥ नानावर्णः । मयूरः । कामदेवः । धनुः । केशः । स्वर्णम् । आभरणम् । पद्यम् । शङ्खः । चन्दनम् । कर्पूरम् । पुष्पम् । कोकिलः । मेघः । पृथिवी । रात्रिः । दीप्तिः । सिंहः । इत्यनेकार्थकोषः ॥ * ॥ सारङ्गहरिणमांसगुणाः । “सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यदम् ।” इति राजनिर्घण्टः ॥

सारङ्गः, त्रि, (सृ + अङ्गच् ।) शवलः । इत्य- मरः । ३ । ३ । २३ ॥ “शारङ्गश्चातके ख्यातः शवले हरिणेऽपि च । इति तालव्यादावजयः । अतएव सारङ्गो दन्त्यादिस्तालव्यादिश्च ।” इति भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्ग पुं।

चातकपक्षी

समानार्थक:शारङ्ग,स्तोकक,चातक,सारङ्ग,दिवौकस्

3।3।23।2।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

सारङ्ग पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

3।3।23।2।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

सारङ्ग वि।

शबलम्

समानार्थक:सारङ्ग

3।3।23।2।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्ग¦ पुंस्त्री॰ सृ--अङ्गच्।

१ चातकस्वगे अमरः।

२ हरिणं

३ गजे मेदि॰।

४ भृङ्गे

५ {??}नभेदे विश्वः।

६ छत्रे

७ राजहंसे[Page5285-a+ 38]

८ चित्रमृगे

९ वाद्यभेदे

१० वस्त्रे शब्दर॰

११ नानावर्णे

१२ मयूरे

१३ कामदेबे

१४ चापे

१५ केशे

१६ स्वर्ण

१७ आभरणे

१८ पद्मे

१९ शङ्खे

२० चन्दने

२१ कर्पूरे

२२ पुष्पे

२३ को-किले

२४ मेघे

२५ सिंहे

२६ रात्रौ

२७ भूमौ

२८ दीप्तौ चनानार्थकोषः। शारमङ्गमस्य शक॰। शारङ्गोऽपि चित्र-मृगादौ। चित्रवर्ण त्रि॰ अमरः। सवत्र जातौ स्त्रियां ङीष्

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं) Variegated, of a variegated colour. m. (-ङ्गः)
1. Variegated colour.
2. A lion.
3. An elephant.
4. The spotted deer.
5. The Cha4taka, (Cuculus melanoleucos.)
6. The Kokila or Indian cuckoo.
7. A large kind of crane, (Ardea Sarunga, CAREY.)
8. A peacock.
9. A cloud.
10. A tree.
11. A parasol.
12. A garment, cloth, clothes.
13. Hair.
14. A lotus.
15. A flower.
16. A conch- shell.
17. A jewel.
18. Gold.
19. A bow.
20. KA4MADE4VA.
21. Sandal.
22. Camphor.
23. The earth.
24. Night.
25. Light.
26. A large bee.
27. A kind of musical instrument.
28. An ornament.
29. S4iva. f. (-ङ्गी)
1. A sort of fiddle.
2. A kind of spotted deer. E. सृ to go, अङ्गच् Una4di aff., or सार strength, &c., गम् to go, खच् aff.; also शारङ्ग।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्ग [sāraṅga], a. (-ङ्गी f.) [सारम् अङ्गमस्य शकं] Spotted, variegated.

ङ्गः The variegated colour.

The spotted deer; एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा Ś.1.5.

A deer in general; सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् Me.21. where it is preferable to take this sense rather than that of 'elephant' or 'bee').

A lion.

An elephant.

A large black bee; Mb.12.178.7.

The cuckoo.

A large crane.

The flamingo.

A peacock.

An umbrella.

A cloud.

A garment.

Hair.

A conch-shell.

N. of Śiva.

The god of love.

A lotus.

Camphor.

A bow.

Sandal.

A kind of musical instrument.

An ornament.

Gold.

The earth.

The Chātaka bird.

A flower.

Night.

Light.

A devotee; सारङ्गाणां पदाम्बुजम् Bhāg. 1.11.26 (com. सारं श्रीकृष्णं गायन्ति ते भक्ताः).

A particular Rāga. -Comp. -जः a deer.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारङ्ग mf( ई)n. or सारङ्ग(sometimes written शार्; either fr. स-रङ्ग, " having colour etc. " , or for शरा-ङ्गor सार्, " having a dappled body ") , of a variegated colour , dappled , spotted(See. कृष्ण-स्, लोहित-स्) AV. Br. MBh.

सारङ्ग mf( ई)n. derived from the antelope called सारङ्गL.

सारङ्ग m. ( ifc. f( आ). )a kind of spotted antelope Ka1v. Katha1s. etc.

सारङ्ग m. N. of various birds ( esp. a kind of विष्किरor प्रतुद[qq. vv.] ; a peacock ; the Indian cuckoo ; the राज-हंस; the चातकetc. ) Ka1v. Sus3r. Car. etc.

सारङ्ग m. a bee BhP.

सारङ्ग m. a kind of metre Col.

सारङ्ग m. (in music) a partic. रागSam2gi1t.

सारङ्ग m. (only L. , " an elephant ; lion ; cloud ; tree ; umbrella ; parasol ; garment ; clothes ; hair ; lotus ; flower ; conch-shell ; sort of musical instrument ; ornament ; jewel ; gold ; a bow ; sandal ; camphor ; the earth ; light ; night ")

सारङ्ग m. N. of शिवMBh.

सारङ्ग m. of काम-देवL.

सारङ्ग m. of the father of भट्टराघवCat.

सारङ्ग m. (with कवि)of a poet ib.

"https://sa.wiktionary.org/w/index.php?title=सारङ्ग&oldid=225195" इत्यस्माद् प्रतिप्राप्तम्