सामग्री पर जाएँ

सारथिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारथिः, पुं, (सरत्यश्वानिति । सृ + अन्तर्भावि- ण्यर्थः + “सर्त्तेर्णिच्च ।” उणा० ४ । ८९ । इति घथिन् ।) रथादिघोटकनियोगकर्त्ता । तत्- पर्य्यायः । नियन्ता २ प्राजिता ३ यन्ता ४ सूतः ५ क्षत्ता ६ सव्येष्टा ७ दक्षिणस्थः ८ रथ- कुटुम्बी ९ । इत्यमरः । २ । ८ । ५९-६० ॥ सादी १० सव्येष्ठः ११ नियामकः १२ चातुरिकः १३ । इति जटाधरः ॥ प्रवेता १४ रथनागरः १५ । इति शब्दरत्नावली ॥ सरथस्यापत्यं सारथिः बाह्वाद्यत इति ष्णिः । सह रथेन वर्त्तते योऽसौ सरथोऽश्वः तं प्रेरयति ढघे कादिति ष्णिर्व्वा । सारयति अश्वान् इति ञ्यन्तात् सृ गतावि- त्यस्मात् नाम्नीति अथिप्रत्ययो वा । इत्यमर- टीकायां भरतः ॥ तल्लक्षणं यथा, मात्स्ये । २१५ । २० -- २१ । “निमित्तशकुनज्ञानो हयशिक्षाविशारदः । हयायुर्व्वेदतत्त्वज्ञो भूरिभागविशेषवित् ॥ स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः । शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥” समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारथिः [sārathiḥ], [सृ-अथिण् सह रथेन सरथः घोटकः तत्र नियुक्तः इञ् वा Tv.; cf. Uṇ.4.89]

A charioteer; स शापो न त्वया राजन् न च सारथिना श्रुतः R.1.78; मातलिसारथिर्ययौ 3.67.

A companion, helper; R.3.37.

The ocean.

A leader, guide.

"https://sa.wiktionary.org/w/index.php?title=सारथिः&oldid=225337" इत्यस्माद् प्रतिप्राप्तम्