सामग्री पर जाएँ

सारम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारम्, क्ली, पुं, (सार त् क दौर्ब्बल्ये + अच् । सृ गतो + घञ् इति वा ।) जलम् । धनम् । (यथा, रघुः । ४ । ७९ । “परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमा- द्रिणा ॥”) न्याय्यम् । इति मेदिनी ॥ (सरात् जातम् । सर + अण् ।) नवनीतम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते उत्तरतन्त्रे । २६ । “क्षीरशेषञ्च तन्मथ्यं शीतं सारमुपाहरेत् ॥” अमृतम् । यथा, भागवते । ७ । ६ । २५ । “धर्म्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥”) लौहम् । इति भावप्रकाशः । विपिनम् । इति शब्दरत्नावली ॥ * ॥ सारवस्तूनि यथा, -- “सारं रसानान्तु घृतं घृतसारं हुतञ्च यत् । हुतस्य सारं स्वर्गञ्च स्वर्गात् सारन्तु योषितः ॥ अतो राजन् प्रदेयाः स्युः स्त्रियः स्वर्गमभीप्- सतः । तथैवेह सुखं ताभिः सह राज्यं नृपोत्तम ॥” इति वह्निपुराणे दासीदानाध्यायः ॥ अपि च । “असारे खलु संसारे सारमेतच्चतुष्टयम् । काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्बु- सेवनम् ॥” इति कवितारत्नाकरधृतपुराणवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=सारम्&oldid=176074" इत्यस्माद् प्रतिप्राप्तम्