सामग्री पर जाएँ

सारसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारसः, पुं, चन्द्रः । इति मेदिनी ॥

सारसः, पुं, स्त्री, (सरसि भवः । अण् ।) स्वनाम- ख्यातपक्षी । तत्पर्य्यायः । पुष्कराह्वः २ । इत्यमरः । २ । ५ । २२ ॥ गोनर्द्दः ३ नाङ्कुरः ४ लक्ष्मणः ५ लक्षणः ६ सरसीकः ७ सरोत्सवः ८ इति शब्दरत्नावली ॥ रसिकः ९ कामी १० । तन्मांसगुणाः । मधुरत्वम् । अम्लत्वम् । कषाय- त्वम् । महातिसारपित्तग्रहण्यर्शोनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तस्य शकुनं यथा, -- “इष्टार्थसिद्धिः सकलासु दिक्षु स्यात् सारसद्वन्द्वविलोकनेन । श्रुत्वास्य पृष्ठे निनदं न गच्छेत् सिध्यत्यभीष्टं गृह एव यस्मात् ॥ वामेन योषित्कुललाभकारी शब्दस्तथाग्रे नृपतोऽर्थलब्ध्यै । यः सारसाभ्यां युगपद्विरावः कृतोऽचिरेण क्रमतोऽपि वामः । स वेदितव्यः कथितार्थकारी क्रौञ्चद्वयस्याप्ययमेव वर्गः ॥” इति वसन्तराजशाकुने सारसवर्गः ॥

"https://sa.wiktionary.org/w/index.php?title=सारसः&oldid=176130" इत्यस्माद् प्रतिप्राप्तम्