सामग्री पर जाएँ

सारसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारसम्, क्ली, (सरसि भवम् । सरस् + अण् ।) पद्मम् । इत्यमरः । १ । १० । ४० ॥ स्त्रीकट्या- भरणम् । इति केचित् ॥

सारसम्, त्रि, (सरसि भवम् । सरस् + अण् ।) सरोवरोद्भवजलादि । तज्जलगुणाः । तथा, -- “नद्याः शैलवराच्चाम्भो यत्र संस्रुत्य तिष्ठति । तत् सरोजजलं छन्नं तदद्भः सारसं स्मृतम् ॥ सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु । रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥” इति भावप्रकाशः ॥ (यथा च । “क्षारं घनं वातकफानुकारि त्वग्दोषकृत् तत् कटु दीपनञ्च । प्रोक्तं विपाके भ्रमशोषकारि स्यात् सारसं नो सुखकारि वारि ॥” इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=सारसम्&oldid=176129" इत्यस्माद् प्रतिप्राप्तम्