सामग्री पर जाएँ

सारस्वतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस्वतः, पुं, सरस्वती देवतास्येति । अण् ।) विल्वदण्डः । (सरस्वत्या अयमिति । तस्येद- मित्यण् ।) देशविशेषः । स तु हस्तिनापुरस्य उत्तरपश्चिमभागे प्रसिद्धः । इति हेमचन्द्रः ॥ यथा । कूर्म्माङ्गस्थदेशानाह । “मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः पाञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः ॥” इति ज्योतिस्तत्त्वम् ॥ सरस्वतीनदीपुत्त्रमुनिविशेषः । सारस्वतदेशो- द्भवब्राह्मणः । यथा, -- “सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः । पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥” इति पुराणम् ॥ कल्पविशेषः ॥ यथा, -- “सारस्वतस्य कल्पस्य मध्ये ये स्युर्न्नरामराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥” इति मात्स्ये ५० अध्यायः ॥ व्याकरणविशेषः । (नवमद्वापरयुगस्य व्यासः । यथा, देवीभागवते । १ । ३ । २८ । “सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥” घृतविशेषे, क्ली । यथा, -- “समूलपत्रामादाय ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले क्षोदयित्वा रसं वस्त्रेण गालयेत् ॥ रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् । औषधानि तु पेष्याणि तानीमानि प्रदापयेत् ॥ हरिद्रा मालती कुष्ठं त्रिवृती सहरीतकी । एतेषां पलिकान्भागान् शेषाणिकार्षिकाणि तु पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा । सर्व्वमेतत् समालोड्य शनैर्मृ द्वग्निना पचेत् ॥ एतत्प्राशितमात्रेण वाग्विशुद्धिश्च जायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ अर्द्धमासप्रयोगेण सोमराजीवपुर्भवेत् । मासमात्रप्रयोगेन श्रुतमात्रन्तु धारयेत् ॥ हन्त्यष्टादशकुष्ठानि अर्शांसि विविधानि च । पञ्चगुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ॥ बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् । घृतं सारस्वतं नाम बलवर्णाग्निवर्द्ध नन् ॥” इति वैद्यकचक्रपाणिसंग्रहे रसायनाधिकारे ॥ इदमेव ब्रह्मीघृतमित्याख्ययापि प्रसिद्धम् ॥ * ॥ त्रि, सरस्वतीसम्बन्धी । (यथा, याज्ञवल्क्ये । २ । ८३ । “वर्णिनां हि वधो यत्र यत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥”) सारस्वतदेशसम्बन्धी ॥ (सरस्वतीनदीसम्बन्धी । यथा, मेघदूते । ५१ । “कृत्वा तासामभिगममपां सौम्य सारस्वतीना- मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सारस्वतः&oldid=176135" इत्यस्माद् प्रतिप्राप्तम्