सामग्री पर जाएँ

सारस्वतकल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस्वतकल्पः, पुं, (सारस्वतः कल्पः ।) सरस्व- त्युपासनाप्रकरणम् । यथा, -- ब्रह्मोवाच । “शृणु ब्रह्मन् परं गुह्यं कल्पं सारस्वतं मम । यस्य विज्ञानमात्रेण जाड्यापहरणं भवेत् ॥ नित्यं सहस्रमाणेन जपेत् संबत्सरं यदि । ततः संजायते मन्त्री वाचस्पतिरिवापरः ॥ छन्दोऽलङ्कारतर्कादिनानाशास्त्रार्थविद्भवेत् । कवित्वं ज्ञानशक्त्या तु पाण्डित्यमधिकं भवेत् ॥ * अथापरं प्रवक्ष्यामि योगं भुवि सुदुर्ल्लभम् । नाभिचक्रस्थितां सौम्यां रक्ताकारां विचि- न्तयेत् ॥ क्षौमाबद्धनितम्बाञ्च रक्ताभरणभूषिताम् । पाशाङ्कुशधरां दिव्यां वराभययुतां पुनः ॥ दृष्ट्या चामृतवर्षिण्या पूरयन्तीं मनोरथान् । एवं ध्यात्वा जपेल्लक्षं मनुजो विहितं ततः ॥ होमं कुर्य्यात् त्रिमध्वक्तं रक्तोत्पलयुतैर्द्विजः । ततः सन्तर्पयेद्देवीं दुग्धयुक्तेन सर्पिषा ॥ पायसेन बलिं दद्यात् दधिपिष्टमधुप्लुतैः । एवं कृत्वा विधानन्तु साक्षाद्वै श्रवणो भवेत् ॥ सिद्धार्थैस्त्रिमधुरोपेतैर्हु त्वा जगद्वशं नयेत् । पद्मदानेन महतीं प्राप्नुयात् श्रियमूर्जिताम् ॥ देवीहृदयविद्याया नास्ति किञ्चित् सुदुर्ल्लभम् स्नेहभावेन सम्प्र्रोक्तं न देयं यस्य कस्यचित् ॥ एतत्ते कथितं दिव्यं विद्योत्पत्तेश्च कारणम् । विष्णुना दत्तमस्मभ्यं मया तुभ्यं द्विजोत्तम ॥ सिद्धमन्त्री यदा मन्त्री वालिशस्यापि मूर्द्धनि । हस्तं दत्त्वा जपेत् सोऽपि सौधीं वाचमन- र्गलाम् ॥” इति स्वायम्भुवमातृकातन्त्रे सारस्वतः पटलः । इति तन्त्रसारः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस्वतकल्प¦ पु॰ कर्म॰।

१ तन्त्रोक्ते सरस्वत्या उपासना-थके विधानभेदे

२ तन्नामके ब्रह्मदिने च। कल्पशब्दे

१८

१६ पृ॰ दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस्वतकल्प/ सारस्वत--कल्प m. the above सरस्वतीceremonial Cat.

"https://sa.wiktionary.org/w/index.php?title=सारस्वतकल्प&oldid=225639" इत्यस्माद् प्रतिप्राप्तम्