सामग्री पर जाएँ

सारस्वतव्रतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारस्वतव्रतः, पुं, (सारस्वतः सरस्वतीदेवताकः व्रतः ।) सरस्वत्या व्रतविशेषः । यथा, -- मनुरुवाच । “मधुरा भारती केन व्रतेन मधुसूदन । तथैव जनसौभाग्यमतिविद्यासुकौशलम् ॥ अभेदश्चापि दम्पत्योस्तथा बन्धुधनेन च । आयुश्च विपुलं पुंसां तन्मे कथय माधव ॥ मत्स्य उवाच । सम्यक् पृष्टं त्वया राजन् शृणु सारस्वतं व्रतम् यस्य सङ्कोर्त्तनादेव तुष्यतीह सरस्वती ॥ यो यद्भक्तः पुमान् कुर्य्यादेतद्व्र तमनुत्तमम् । तद्वासरादौ संपूज्य विप्रानेतत् समारभेत् ॥ अथवादित्यवारेण ग्रहताराबलेन वा । पायसं भोजयेद्विद्वान् कृत्वा ब्राह्मणवाचनम् ॥ शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः । गायत्तीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपणैः ॥ यथा न देवो भगवान् ब्रह्मा लोकपितामहः । त्वां परित्यज्य सन्तिष्ठे त्तथा भव वरप्रदा ॥ वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥ लक्ष्मीर्म्मेधा धरा पुष्टिर्गौरीतुष्टिः प्रभामतिः । एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ॥ एवं सम्पूज्य गायर्त्त्रां वीणाक्षमाल्यधारिणीम् । शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुष्पकम् ॥ मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्म्मवित् । पञ्चम्यां प्रतिपक्षञ्च पूजयेत् शब्दवासिनाम् ॥ तथैव तण्डुलप्रथ्यं घृतपात्रेण संयुतम् । क्षीरं दद्याद्धिरण्यञ्च गायत्त्री प्रीयतामिति ॥ सन्ध्यायाञ्च तथा मौनमेतत् कुर्व्वन् समाचरेत् । नान्तराभोजनं कुर्य्यात् यावन्मासास्त्रयोदश ॥ समाप्ते तु व्रते दद्यात् भोजनं शुक्लतण्डुलैः । सुवर्णं वस्त्रयुग्मञ्च गाञ्च विप्राय शोभनाम । देव्या वितानं घण्टाञ्च सितनेत्रपटावृताम् । चन्दनं वस्त्रयुग्मञ्च दध्यन्ने शिखरं पुनः । तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् ॥ वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः । अनेन विधिना यस्तु कुर्य्यात् सारस्वतं व्रतम् । विद्यावानर्थयुक्तश्च व्यक्तकण्टश्च जायते ॥ सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते । नारी वा कुरुते या तु सापि तत्फलभागिनी ब्रह्मलोके वसेद्राजन् यावत् कल्पायुतत्रयम् । सारस्वतं व्रतं यस्तु शृणुयादथवा पठेत् । विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम् ॥” इति मत्स्यपुराणे । ६६ । १ -- २४ ॥

"https://sa.wiktionary.org/w/index.php?title=सारस्वतव्रतः&oldid=176139" इत्यस्माद् प्रतिप्राप्तम्