सामग्री पर जाएँ

सारिवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारिवा, स्त्री, लताविशेषः । अनन्तमूल इति ख्याता । गोरिया साउ इति हिन्दी भाषा । सा तु जम्बु वत्पत्रा दुग्धगर्भा व्रततिर्भवति । तत्पर्य्यायः । शारदा २ गोपी ३ गोपकन्या ४ गोपवल्ली ५ प्रतानिका ६ लता ७ आस्फोता ८ काष्ठसारिवा ९ । इति राजनिर्घण्टः ॥ गोपा १० उत्पलसारिवा ११ अनन्ता १२ शारिवा १३ श्यामा १४ । इति शब्दरत्नावली ॥ अस्या गुणाः । मधुरत्वम् । स्निग्धत्वम् । वृष्यत्वम् । पित्तप्रणाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ कृष्णसारिवा । सा तु इन्द्रजम्बु वत्पत्रा सुगन्धा कलघण्टेति प्रसिद्धा । करिया साउ इति हिन्दी भाषा । श्यामालता इति वङ्गभाषा । तत्पर्य्यायः । कृष्णमूली २ कृष्णा ३ चन्दन- सारिवा ४ भद्रा ५ चन्द्रनगोपा ६ चन्दना ७ कृष्णवल्ली ८ । अस्या गुणाः । त्रिदोषशमन- त्वम् । तिक्तत्वम् । कटुरसत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “सारिवाद्वौ तु मधुरौ हिमौ भूतनिकृन्तनौ । कुष्ठकण्डुज्वरहरौ देहदुर्गन्धिनाशनौ ॥” इति राजनिर्घण्टः ॥ किञ्च । “सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु । अग्निमाद्यरुचिश्वासकासामविषनाशनम् । दोषत्रयाश्रप्रदरज्वरातिसारनाशनम् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारिवा¦ स्त्री सारिरिव वाति वा--क। (अनन्तमूल) लताभेदेसा च दुग्धगर्भा जम्बुवत्पत्रां सुगन्धा च। सा च कृष्णशुक्लभेदात् द्विपिधा
“सारिवायुगलं स्वादुस्निग्धं शुक्रकरं गुरु। अग्निमान्द्यारुचिश्वासकासाम-विप्रनाशनम्। दोषत्रयास्रप्रदरज्वरातीसारनाशनम्” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारिवा¦ f. (-वा) A creeping plant, (Echites frutescens.) E. See शारिवा |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सारिवा f. N. of two creeping plants (Hemidesmus Indicus and Ichnocarpus Frutescens) , Sus3r.

"https://sa.wiktionary.org/w/index.php?title=सारिवा&oldid=225826" इत्यस्माद् प्रतिप्राप्तम्