सार्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सार्थः, पुं, (सरतीति । सृ + “सर्त्तेर्णिच्च ।” उणा० २ । ५ । इति थन् । सच णित् ।) जन्तुसंघः । इत्यमरः । २ । ६ । ४१ ॥ बणिक्समूहः । (यथा, रघुः । १७ । ६४ । “वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥”) समूहमात्रम् । इति मेदिनी ॥ (यथा, बृहत्- संहितायाम् । ८६ । ४९ । “पश्चिमे शर्व्वरीभागे नोप्तृकोलूकपिङ्गलाः । सर्व्व एव विपर्य्यस्ता ग्राह्याः सार्थेषु योषि- ताम् ॥”)
सार्थः, त्रि, अर्थेन सह वर्त्तमानः । अर्थयुक्तः । इति हेमचन्द्रः ॥ यथा, वनपर्व्वणि । “सार्थः प्रसवतो मित्रं भार्य्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्र’ दानंमित्रं मरिष्यतः ॥” इति शुद्धितत्त्वम् ॥
