सार्द्धम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सार्द्धम्, व्य, सहितम् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, महाभारते । ७ । २७ । २ । “सुशर्म्मा भ्रातृभिः सार्द्धं युद्धार्थी पृष्ठतोऽन्व- यात् ॥”)
सार्द्धम्, त्रि, अर्द्धेन सह वर्त्तमानम् । अर्द्धयुक्तम् । यथा, -- “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरया- मान्तः ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “गतेऽब्दे द्वितये सार्द्धे पङ्कपक्षे दिनद्वये । दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥” इति भलमासतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सार्द्धम्¦ अव्य॰ सह + ऋध--अमु।
१ साहित्ये अमरः। सहअर्द्धेन। सार्द्ध
२ अर्द्धयुक्ते त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सार्द्धम्¦ Ind. With, together with. स for सह with, ऋद्ध increased, अमु aff.