सार्व्वभौमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सार्व्वभौमः, पुं, (सर्व्वभूमौ विदितः । “तत्र विदितः इति च ।” ५ । १ । ४३ । इत्यण् ।) उत्तरदिग्- गजः । इत्यमरः । १ । ३ । ४ ॥ सर्व्वभूमीश्वरः । तत्पर्य्यायः । चक्रवर्त्ती २ एकजन्मा ३ नृपा- ग्रणीः ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । ९३ । ९ । “भरतस्य च वीरस्य सार्व्वभौमस्य पार्थिव ! । ध्रुवं प्राप्स्यति दुष्प्रापान् लोकांस्तीर्थपरि- प्लु तः ॥”) विदूरथपुत्त्रः । यथा, -- “परिक्षिरनपत्योऽभूत् सुरथो नाम जाह्नवः । ततो विदूरथस्तस्मात् सार्व्वभौमस्ततोऽभवत् ॥” इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥ (पुरुवंशीयाहंयातिनृपस्य पुत्त्रः । यथा, महा- भारते । १ । ९५ । १५ -- १६ । “अहंयातिः खलु कृतवीर्य्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य यज्ञे सार्व्वभौमः । सार्व्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दां नाम तामुप- येमे ॥” * ॥) सकलभूमिसम्बन्धिनि, त्रि ॥
