सामग्री पर जाएँ

सालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सालः, पुं, (शल्यते इति । शल गतौ + घञ् ।) शालमत्स्यः । इत्यमरटीकायां भरतः ॥ वृक्ष- मात्रम् । प्राकारः । इति मेदिनी ॥ रालः । इति राजनिर्घण्टः ॥ (सारोऽस्त्यत्रेति । अच् । रस्य लः ।) स्वनामख्यातवृक्षः । इत्यमरः । २ । २ । ३ ॥ सखुया इति हिन्दी भाषा । तत्पर्य्यायः । सर्ज्जः २ सर्ज्जरसः ३ कलः ४ कललजोद्भवः ५ वल्लीवृक्षः ६ चौरपर्णः ७ रालकार्य्यः ८ पुस्तका- न्तरे रालः कर्य्यश्चेति शब्दद्वयम् । अजकर्णकः ९ वस्तकर्णः १० कषायी ११ ललनः १२ गन्ध- वृक्षकः १३ वंशः १४ रालनिर्यासः १५ दिव्य- सारः १६ सुरेष्टकः १७ शूरः १८ अग्निवल्लभः १९ यक्षधूपः २० सिद्धिकः २१ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । हिमत्वम् । स्निग्धत्वम् । अतिसारपित्तास्रदोषकुष्ठकण्डूवि- स्फोटवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “सालस्तु सर्ज्जकार्य्याश्वकर्णकाः शस्यसम्बरः । अश्वकर्णः कषायः स्याद्व्रणस्वेदकफक्रिमीन् ॥ व्रध्नविद्रधिवाधिर्य्ययोनिकर्णगदान् हरेत् ॥” अथ सालप्रभेदाः । “सर्ज्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति । कफपाण्डश्रतिगदान् मेहकुष्ठविषव्रणान् ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सालः [sālḥ], 1 N. of a tree or its resin; Bhāg,8.2.12.

A tree in general, as in कल्पसाल, रसालसाल; सायंतनाभ्रसम- शोभमशोकसालम् Rām. ch.5.22; आकाशमार्गे$भिकुलायसालं मन्दं विचेलुर्मधुरं रुवन्तः ibid. 6.4.

A rampart, a fence or wall round a building.

A wall in general.

A kind of fish. (For compounds see under शाल).

"https://sa.wiktionary.org/w/index.php?title=सालः&oldid=226398" इत्यस्माद् प्रतिप्राप्तम्