सामग्री पर जाएँ

सावनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावनः, पुं, (सवनस्यायमिति । अण्) यज्ञ- कर्म्मान्तः । यजमानः । वरुणः । इति मेदिनी ॥ दिवसविशेषः । यथा, -- “तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥” इति मलमासतत्त्वम् ॥ मासभेदः । स च त्रिंशदहोरात्रात्मकः । यथा, “त्रिंशता सौरदिवसैः सावनः परिकीर्त्तितः ।” इति शब्दरत्नावली ॥ अपि च । ब्रह्मसिद्धान्ते । “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशौ रविर्यावत् कालं मासः स भास्करः । सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥” विष्णुधर्म्मोत्तरे च । “सन्निकर्षादथारभ्य सन्निकर्षमथापरम् । चन्द्रार्कयोर्बुधैर्म्मासश्चान्द्र इत्यभिधीयते । सावने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः ॥ आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः । सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥” * ॥ सावनमासकर्त्तव्यकर्म्मादि यथा, -- “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तित्ः ॥ पितामहः । “आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” अत्र आदिपदेन सत्रभृतिवृद्धिप्रायच्चित्तायुर्द्दाया- शौच-गर्भाधान-पुंसवन-सीमन्तोन्नयन-नामकर- णान्नप्राशन-निष्क्रमण-चूडादिग्रहणम् । तथा च विष्णुधर्म्मीत्तरम् । “अध्वायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्यवस्येत् । सत्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” इति मलमासतत्त्वम् ॥ * ॥ वर्षविशेषः । यथा, -- “सौरेणाब्दस्तु मानेन यदा भवति भार्गव । सावनेन च मानेन दिनषट्कं प्रपूर्य्यते ॥” सौरसंवत्सरे दिनषट्काधिकः सावनः संवत्- सरो भवतीति । इति मलमासतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सावनः&oldid=176227" इत्यस्माद् प्रतिप्राप्तम्