सावनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सावनम्, क्ली, (सवनं सोमयज्ञस्नानं तस्येदमित्यण्) सवनसम्बन्धिदिनम् । यथा । सोमयागे सवन- त्रयस्याहोरात्रसाध्यत्वात् तत्सम्बन्धि दिनं सावनम् । इति माधवाचार्य्यः ॥ अपि च । ब्रह्मसिद्धान्ते । सावनं दण्डाः षष्टिरहःस्वलग्न- स्वगुणांशाढ्यास्तदैनं भवेत् । इति मलमास- तत्त्वम् ॥ (यथाच सूर्य्यसिद्वान्ते । “उदायादुदयं भानोः सावनं तत् प्रकीर्त्तितम् । सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥”)
