सामग्री पर जाएँ

सावर्णिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावर्णिः, पुं, (सवर्णाया अपत्यमिति । इञ् ।) अष्टममनुः । स च सूर्य्यपुत्त्रः । यथा, -- “विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृर्णु ॥ सावर्णिस्तपती कन्या भार्य्या संवरणस्य या । शनैश्चरस्तृतीयोऽभूदश्विनौ बडवात्मजौ ॥ अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः । निर्म्मोकविरजस्काद्याः सावर्णितनया नृप ॥ तत्र देवाः सुतपसो विरजा अमृतप्रभाः । तेषां विरोचनसुतो वलिरिन्द्रो भविष्यति ॥ दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् । राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ योऽसौ भमवता बद्धः प्रीतेन सुतले पुनः । निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव गालवो दीप्तिमान्रामो द्रोणपुत्त्रः कृपस्तथा । ऋष्यशृङ्गः पितास्माकं भगवान् वादरायणः । इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ॥ इदानीमासते राजन् स्वे स्वे आश्रममण्डले । देवगुह्यात् सरस्वत्यां सार्व्वभौम इति प्रभुः । स्थानं पुरन्दराद्वृत्वा वलये दास्यतीश्वरः ॥” इति श्रीभागवते । ८ । १३ । ८ -- १७ ॥ (अस्य विशेषविवरणन्तु मार्कण्डेपुराणे देवी- माहात्म्ये द्रष्टव्यम् ॥) गोत्रविशेषः । यथा । वात्स्यसावर्णिगोत्रयोरौर्व्वच्यवनभार्गवजामद- ग्न्याप्नुवत्प्रवराः । इत्युद्वाहतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावर्णिः [sāvarṇiḥ], A metronymic of the eighth Manu (son of the sun by Savarṇā); सावर्णिः सूर्यतनयो यो मनुः कथ्यते$ष्टमः Mārk. P.

"https://sa.wiktionary.org/w/index.php?title=सावर्णिः&oldid=226701" इत्यस्माद् प्रतिप्राप्तम्