सामग्री पर जाएँ

सावित्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावित्रः, पुं, (सविता देवता अस्येति । अण् ।) ब्राह्मणः । इति हेमचन्द्रः ॥ शङ्करः । वसुः । इति मेदिनी ॥ (स्वार्थे अण् ।) सूर्य्यः । गर्भः । इति शब्दरत्नावली ॥ (सवितुरपत्यं पुमान् । अण् । कर्णः । यथा, महाभारते । १ । १३७ । ८ । “सोऽव्रवीत् मेघगम्भीरस्वरेण वदतां वरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥” सूर्य्यवंशीये, त्रि । यथा, उत्तरचरिते १ अङ्के । “यत् सावित्रैर्दीपितं भूमिपालै- र्लोकश्रेष्ठैः साधु शुद्धं चरित्रम् । मत्सम्बन्धात् कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त धिक् मामधन्यम् ॥” सवितृसम्बन्धिनि च त्रि । यथा, मनुः । ४ । १५० । “सावित्रान् शान्तिहोमांश्च कुर्य्यात् पर्व्वसु नित्यशः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सावित्रः&oldid=176238" इत्यस्माद् प्रतिप्राप्तम्