सामग्री पर जाएँ

सावित्रीव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावित्रीव्रतम्, क्ली, (सावित्र्या व्रतम् ।) ज्यैष्ठ- कृष्णचतुर्द्दश्यां स्त्रीकर्त्तव्यनियमविशेषः । तद्वि- वरणं यथा, । पराशरः । “मेषे वा वृषभे वापि सावित्रीं तां विनिर्द्दिशेत् ॥” तां चतुर्द्दशीम् । “ज्यै ष्ठकृष्णचतुर्द्दश्यां सावित्रीमर्च्चयन्ति याः । वटमूले सोपवासा न ता वैधव्यमाप्नु युः ॥” राजमार्त्तण्डकृत्यचिन्तामण्योः । “ज्यैष्ठे मासि चतुर्द्दश्यां सावित्रीव्रतमुत्तमम् । अवैधव्याय कुर्व्वन्ति स्त्रियः श्रद्धासमन्विताः ॥” व्रतमात्रे तु अनन्तचतुर्द्दशीव्रतोक्तमाचरन्ति । दृष्टपरिकल्पनान्यायात् । तदुक्तं मत्स्यपुराणे । “गर्भिणी सूतिका नक्तं कुमारी च रजस्वला । यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥” उपवासाशक्तौ नक्तं भोजनं कुर्य्यात् । “उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।” इति तद्धृतवचनान्तरात् । अशुद्धा चेत् पूजां कारयेत् । कायिकञ्चोपवासादिकं सदा शुद्वया अशुद्धया च स्वयं क्रियते । एवं स्मृ तिपरि- भाषायां वर्द्धमानोपाध्यायाः । नारदः । “दिवाभागे त्रयोदश्यां यदा चतुर्द्दशी भवेत् । तत्र पूज्या महासाध्वी देवी सत्यवता सह ॥” दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि अतएव प्रदोषे व्रतमाचरन्ति । पूर्व्वाहे तद्विधत्वेऽपि पराहे त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यानीति वचनात् । यदा तु पूर्व्वापरयोर्न तथाविधा । तदापि पराह एव । यथा । ज्योतिषे । “चतुर्द्दश्याममावास्या यदा भवति नारद ! । उपोष्य पूजनीया सा चतुर्द्दश्यां विधानतः ॥” सा सावित्री । ततश्चामावास्यायां सावित्रीव्रत- विधानं शिवा घोरा तथा प्रेतेति वचनञ्चैतत्- परम् । पराशरः । “सावित्रीमर्च्चयित्वा तु फलाहारा परेऽहनि । ततश्चाविधवा नारी वित्तभोगान् लभेत सा ॥” इति तिथ्यादितत्त्वम् ॥ अन्यत् वनपर्व्वीयसावित्रीव्रतकथायां द्रष्टव्यम् ।

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावित्रीव्रत¦ न॰ सावित्रीपूजनमुद्दिश्य कर्त्तव्यं व्रतम्। ज्यैष्ठकृष्णचतुर्दश्यां सावित्रोपूजनार्थे व्रते तद्विधियेथा
“शिवाऽघोरा तथा प्रेता सावित्री च चतुर्दशी। कुहूयु-क्तैव कर्त्तव्या कुह्वामेव हि पारणम्” ति॰ त॰ धृतवचनम्यमः
“दत्त्वा जलाञ्जलीन् सप्त कृष्णपक्षे चतुर्दशीम्। धर्मराजं समुद्दिश्य सर्वपापैः प्रमुच्यते”। लिङ्गपुराणेउपवासश्चतुर्दश्यां महापातकनाशकः”। पराशरः
“मेषेवा वृषभे वापि सापित्रीं तां विनिर्दिशेत्”। तांचतुर्दशीम्
“ज्यैष्ठे कृष्णचतुर्दश्यां सावित्रीमर्चयन्ति याः। वटमूले सोपवासा न ता वैधव्यमाप्नुयुः”। राजमार्त्त-ण्डकृत्यचिन्तामण्योः
“ज्यैष्ठे मासि चतुर्दश्यां सावि-त्रीव्रतमुत्तमम्। अवैधध्याय कुर्वन्ति स्त्रियः श्रद्धासम-न्विताः”। व्रतमात्रे तु अनन्ततृतीयाव्रतोक्तमाचरन्तिदृष्टपरिकल्पनान्यायात् तदुक्तं मत्स्यपुराणे
“गर्भिणी-सूतिका नक्तं कुमारी च रजस्वला। यदाऽशुद्धा तदा-[Page5288-a+ 38] न्येन कारयेत् क्रियते सदा”। उपवासाशक्ता नक्तंभोजनं कुर्य्यात्
“उपवासे त्वशक्तानां नक्तं भोजनमि-ष्यत” इति तद्धृतवचतान्तरात्। अशुद्धा चेत् पूर्जाकारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धया अशु-द्धया च स्वयं क्रियते। एवं स्मृतिपरिभाषिकायांवर्द्धमानोपाध्यायाः। नारदः
“दिवाभागे त्रयोदश्यांयदा चतुर्दशी भवेत्। तत्र पूज्या सहासाध्वी देवी-सत्यवता सह। दिवाभागे दण्डद्वयमात्रसत्त्वेऽपिअतएव प्रदोषे व्रतमाचरन्ति। पूर्वाह्णे तद्विधत्वेऽपि। पराह्णे त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यापिनोति वचनात्। यदा तु पूर्वपरयोर्न तथाविधा तदापिपराह एव यथा ज्योतिषे
“चतुर्दश्याममावास्यायदा भवति नारद!। उपोष्या पूजनीया सा चतु-र्दश्यां विधानतः”। सा सावित्री। ततश्चामावास्यायांसावित्रीव्रतविधानं शिवाघोरेति वचनञ्चैतत्परम्। परा-शरः
“सावित्रीमर्चयित्वा तु फलाहारा परेऽहनि। ततश्चाविपवा नारी वित्तभोगान् लभेत सा”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावित्रीव्रत¦ n. (-तं) A particular fast kept by Hindu woman on the last three days, or the last day of the bright-half of Jyaishtha to avert widowhood.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सावित्रीव्रत/ सावित्री--व्रत n. a partic. fast (kept by women on the fifth day of the second half of वैशाख, or of the dark half of ज्यैष्ठ, to preserve them from widowhood) Hariv.

"https://sa.wiktionary.org/w/index.php?title=सावित्रीव्रत&oldid=226824" इत्यस्माद् प्रतिप्राप्तम्