सावित्रीव्रतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सावित्रीव्रतम्, क्ली, (सावित्र्या व्रतम् ।) ज्यैष्ठ- कृष्णचतुर्द्दश्यां स्त्रीकर्त्तव्यनियमविशेषः । तद्वि- वरणं यथा, । पराशरः । “मेषे वा वृषभे वापि सावित्रीं तां विनिर्द्दिशेत् ॥” तां चतुर्द्दशीम् । “ज्यै ष्ठकृष्णचतुर्द्दश्यां सावित्रीमर्च्चयन्ति याः । वटमूले सोपवासा न ता वैधव्यमाप्नु युः ॥” राजमार्त्तण्डकृत्यचिन्तामण्योः । “ज्यैष्ठे मासि चतुर्द्दश्यां सावित्रीव्रतमुत्तमम् । अवैधव्याय कुर्व्वन्ति स्त्रियः श्रद्धासमन्विताः ॥” व्रतमात्रे तु अनन्तचतुर्द्दशीव्रतोक्तमाचरन्ति । दृष्टपरिकल्पनान्यायात् । तदुक्तं मत्स्यपुराणे । “गर्भिणी सूतिका नक्तं कुमारी च रजस्वला । यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥” उपवासाशक्तौ नक्तं भोजनं कुर्य्यात् । “उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।” इति तद्धृतवचनान्तरात् । अशुद्धा चेत् पूजां कारयेत् । कायिकञ्चोपवासादिकं सदा शुद्वया अशुद्धया च स्वयं क्रियते । एवं स्मृ तिपरि- भाषायां वर्द्धमानोपाध्यायाः । नारदः । “दिवाभागे त्रयोदश्यां यदा चतुर्द्दशी भवेत् । तत्र पूज्या महासाध्वी देवी सत्यवता सह ॥” दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि अतएव प्रदोषे व्रतमाचरन्ति । पूर्व्वाहे तद्विधत्वेऽपि पराहे त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यानीति वचनात् । यदा तु पूर्व्वापरयोर्न तथाविधा । तदापि पराह एव । यथा । ज्योतिषे । “चतुर्द्दश्याममावास्या यदा भवति नारद ! । उपोष्य पूजनीया सा चतुर्द्दश्यां विधानतः ॥” सा सावित्री । ततश्चामावास्यायां सावित्रीव्रत- विधानं शिवा घोरा तथा प्रेतेति वचनञ्चैतत्- परम् । पराशरः । “सावित्रीमर्च्चयित्वा तु फलाहारा परेऽहनि । ततश्चाविधवा नारी वित्तभोगान् लभेत सा ॥” इति तिथ्यादितत्त्वम् ॥ अन्यत् वनपर्व्वीयसावित्रीव्रतकथायां द्रष्टव्यम् ।
