सामग्री पर जाएँ

साहचर्य्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साहचर्य्यम्, क्ली, (सहचरस्य भावः कर्म्म वा । सहचर + ष्यञ् ।) सहचरस्य भावः । (यथा, कुमारे । ३ । ११ । “मधुश्च ते मन्मथ ! साहचर्य्या- दसावनुक्तोऽपि सहाय एव समीरणो नोदयिता भवेति व्यादिश्यते केन हुतासनस्य ॥”) सहगमनम् । सहचरशब्दात् ष्ण्यप्रत्ययेन निष्प- न्नम् ॥ सहचारः । सामानाधिकरण्यम् । एकाधिकरणवृत्तित्वम् । यथा, -- “प्रायशो रूपभेदेन साहचर्य्याच्च कुत्रचित् ।” इत्यमरः ॥ (सहधर्म्माचरणम् । इति मल्लिनाथः ॥ यथा, रघुः । १६ । ८७ । “तस्याः स्पृष्टे मनुजपतिना साहचर्य्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ॥”)

"https://sa.wiktionary.org/w/index.php?title=साहचर्य्यम्&oldid=176254" इत्यस्माद् प्रतिप्राप्तम्