सामग्री पर जाएँ

साहसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साहसम्, क्ली, (सहसा बलेन निर्वृत्तम् । सहस् + “तेन निर्वृ त्तम् ।” ४ । २ । ६८ । इति अण् ।) दण्डः । इत्यमरः । २ । ८ । २१ ॥ स च त्रिविधः । यथा, याज्ञवल्क्यः । “साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदूर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः ॥” इति प्रायश्चित्ततत्त्वम् ॥ बलात्कारकृतकार्य्यम् । इति मेदिनी ॥ (यथा, “वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् । त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥” इति माधवकरसंगृहीतरुग्विनिश्चये यक्ष्माधि- कारे ॥ “साहसादिति साहसो बलवद्विग्रहादि- रूपः क्षोभहेतुत्वेन कारणत्वम् ॥” इति तट्टी- कायां विजयरक्षितः ॥ * ॥ दुष्कृतकर्म्म । अवि- मृष्यकृतिः । (यथा, महाभारते । १ । ४२ । १ । “यद्येतत् साहसं तात ! यदि वा दुष्कृतं कृतम् प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥”) द्वेषः । इति हेमचन्द्रः ॥ प्रश्चाद्दोषमनालोच्य करणम् । तत्तु चीर्य्यपरदारगमनादि । इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ साहसमाह नारदः मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम् ॥” अत्र सद्य एवोत्तरदापनम् । यथा, -- साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” विवादयेत् सद्य एवोत्तरं दापयेत् । इति शूल- पाणिः ॥ तत्र दासादयोऽपि साक्षिणो भवन्ति यथा, उशना । “दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरा- दयः । एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥” इति व्यवहारतत्त्वम् ॥ (तद्युक्ते, त्रि । यथा, हरिवंशे भविष्यपर्व्वणि । ३९ । ३७ । “न जाने इति यद्ब्रूषे किमतः साहसं वचः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साहसम् [sāhasam], [सहसा बलेन निर्वृत्तम् अण्]

Violence, force; rapine; पैशून्यं साहसं द्रोहं ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोी$पि गणो$ष्टकः ॥ Ms.7.48.

Any criminal act (such as robbery, rape, felony &c.), a heinous crime, an aggressive act.

Cruelty, oppression; न सहास्मि साहसमसाहसिकी Śi.9.59.

Boldness, daring, daring courage; साहसे श्रीः प्रतिवसति Mk.4.

Precipitation, rashness, temerity, an inconsiderate or reckless act, a rash or daring act; तदपि साहसाभासम् Māl.2; किमपरमतो निर्व्यूढं यत् करार्पणसाहसम् 9.1; Pt.1.191; Ki.17.42.

Punishment, chastisement, fine (m. also in this sense); पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः Ms.8.138,276; Y. 1.66,365.

Comp. अङ्कः an epithet of king Vikramāditya.

of a poet.

of a lexicographer. -अधिपतिः a police officer; साहसाधिपतिं चैव ग्रामनेतारमेव च Śukra.2.2.-अध्यवसायिन् a. acting rashly or with inconsiderate haste. -एकरसिक a. wholly intent on violence, ferocious, brutal. -करणम् violence, force. -कारिन् a.

bold, audacious.

rash, inconsiderate. -दण्डः highest amerciament; पूर्वः साहसदण्ड आहर्तुः Kau. A.2.5. -लाञ्छन a. characterized by boldness.

"https://sa.wiktionary.org/w/index.php?title=साहसम्&oldid=227172" इत्यस्माद् प्रतिप्राप्तम्