सामग्री पर जाएँ

साहसिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साहसिकः, त्रि, (सहसा बलेन वर्त्तते इति । सहस् + “ओजःसहोम्भसा वर्त्तते ।” ४ । ४ । २७ । इति ठक् ।) मनुष्यमारकः । चौरः । पारदारिकः । परुषवादी । अनृतवादी । इति साहसशब्दार्थदर्शनात् । एते असाक्षिणः । यथा नारदः । “स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्च ये । असाक्षिणस्तु ते दुष्टास्तेषु सत्यं न विद्यते ॥” इति व्यवहारतत्त्वम् ॥ (हठकारी । यथा । “केचित् साहसिका- स्त्रिलोचनमिति पेठुः ।” इति कुमारटीकायां मल्लिनाथः । ३ । ४४ ॥)

"https://sa.wiktionary.org/w/index.php?title=साहसिकः&oldid=176263" इत्यस्माद् प्रतिप्राप्तम्