साहस्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साहस्रम्, क्ली, (सहस्राणां समूहः । सहस्र + “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।) सहस्रसमूहः इत्यमरः । ३ । २ । ४५ ॥ (यथा, महाभारते । २ । ५८ । १३ । “एतावन्ति च दासानां साहस्राण्युत सन्ति मे ॥” सहस्रमेव । स्वार्थे अण् ।) सहस्रमात्रम् । यथा, -- “हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रायाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम् ॥ इति महिम्नस्तवः ॥ (सहस्रेण क्रीतमिति । “शतमानविंशतिक- सहस्रवसनादण् ।” ५ । १ । २७ । इति अण् ।) सहस्रेण क्रीते, त्रि ॥ (सहस्रस्येदमिति । अण् ।) सहस्रसम्बन्धिनि च त्रि ॥ (यथा, विष्णुपादादि- केशान्तवर्णनस्तोत्रे । १४ । “साहस्री वापि संख्या प्रकटमभिहिता सर्व्व- वेदेषु येषाम् ॥”)
