सिंहनादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहनादः, पुं, (सिंहस्येव नादः ।) योधानां रणोत्साहजरवः । तत्पर्य्यायः । क्षेड्वा २ । इत्य- मरः । २ । ८ । १०७ ॥ गजयूथदर्शनात् तद्भ- ङ्गाय यथा सिंहस्य नादस्तथा परबलभङ्गाय स्वोत्साहविवृद्धये च यो रावः सः । सिंहस्येव नादः सिंहनादः । इति भरतः ॥ (यथा आर्य्या- सप्तशत्याम् । ७०० । “कविसमरसिहनादः स्वरानुनादः सुधैक- संवादः । विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥” महादेवः । इति महाभारतम् । १३ । १७ । ११० ॥ * ॥ सिंहस्य नादः ।) सिंहशब्दश्च ॥
