सामग्री पर जाएँ

सिंहसंहननः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिंहसंहननः, त्रि, (सिंहस्येव संहननं अवयवो यस्य ।) वराङ्गरूपोपेतः । इत्यमरः । ३ । १ । १२ ॥ प्रत्येकमवयवशुद्ध्या सुन्दरः । सिंहसंहननः स स्याद्यो हि सर्व्वाङ्गसुन्दरः । इति कोषान्तरम् ॥ सिंहस्येव संहननं देहोऽस्य सिंहसंहननः । रूढिशब्दोऽयं यथाकथञ्चिदन्वयः । इति भरतः ॥ (सिंहस्य संहननम् ।) सिंहनाशने, क्ली ॥

"https://sa.wiktionary.org/w/index.php?title=सिंहसंहननः&oldid=176317" इत्यस्माद् प्रतिप्राप्तम्