सिंहासनचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासनचक्रम्, क्ली, (सिंहासनमिव चक्रम् ।) सप्तविंशति-नक्षत्राङ्कित-नराकार-चक्र-त्रयम् । यथा, -- “अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् । सप्तविंशतिनक्षत्रैरेकैकञ्च नवात्मकम् ॥ अश्विनीमघमूलाद्यं पञ्चनाडीविभेदतः । अश्विन्याद्युत्तरे भागे मघाद्यं पूर्व्वतः स्थितम् । मूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् । इतरेषु च राज्येषु नृपनामर्क्षतो वदेत् ॥ शुभाशुभमिदं सर्व्वं यत्र यस्य शनिः स्थितः । नाडिकापञ्चवेधेन एकैकस्यासनं भवेत् ॥ आधारमासनं पट्टं सिहं सिंहासनं तथा । ग्रहैर्व्वेधवशाज्ज्ञेयं सौम्यः क्रूरैः शुभाशुभम् ॥ ऋक्ष आधारगे राजा अभिषिक्तो य आसने । पराधीनगतं राज्यं कुरुते नात्र संशयः ॥ आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः । प्रधानपुरुषो देवः प्रजाशान्तिकरो भवेत् ॥ पट्ट ऋक्षे यदा राजा उपविष्टो नृपासने । पूर्व्वराजस्थितेस्तुल्यश्चिरं पालयते महीम् ॥ सिंहरूपी भवेद्राजा सिंहर्क्षेणासने स्थितः । संग्रामस्य प्रियो नित्यमसाध्यो मन्त्रिमण्डलैः ॥ सिंहासनगते धिष्ण्ये तेजस्वी भीषणाकृतिः । चलच्चित्तो महाक्रोधी प्रजापीडाकरो नृपः ॥ तत्कालेन्दुगते ऋक्षे क्रूरनिर्व्वेधनाडिके । शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने ॥ ईदृशे च समायोगे उपविष्टो य आसने । उच्छाद्य शत्रुसंघातमेकच्छत्रं करोति सः ॥ क्रू रग्रहगतां नाडीमुपविष्टो य आसने । बन्धनं भूमिनाशश्च तथा मृत्युः प्रजायते ॥ आधार ऋक्षगः सौरिरनावृष्टं करोति च । दुर्मिक्षं रौरवं तत्र प्रजापीडा च जायते ॥ आसने च यदा सौरिर्युद्धे भङ्गप्रदो भवेत् ।) अथवा व्याधिपीडा च मनोदुःखं प्रजायते ॥ पट्ट ऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति । प्रियो वाथ कुमारो वा मन्त्रिबन्धुक्षयोऽपि वा ॥ सिंहे सिंहासने वापि यदा तिष्ठति सूर्य्यजः । तदा मृत्युर्न सन्देहो यदि शक्रसमो नृपः ॥ शनिराह्वर्कमाहेया यदा चन्द्रेण संयुताः । यस्यासनगता एते तस्य राज्ञो भयङ्कराः ॥ क्रूरयुक्तोऽथ वक्रस्तु क्रूरनाडीगतोऽपि वा ॥ आसने चन्द्रयोगेन कालरूपी शनैश्चरः ॥ एवं शुभफलं दद्याद्दे वमन्त्री न संशयः । करोति विपुलं राज्यं यस्यासनगतो गुरुः ॥” इति ज्योतिस्तत्त्वम् ॥
