सामग्री पर जाएँ

सिंहासनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सिंहासनम्, क्ली, (सिंहचिह्नितमासनम् ।) स्वर्ण- मयराजासनम् । इत्यमरः । २ । ८ । ३२ ॥ अथ सिंहासनयुक्तिः । “राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते ॥ शुभे मुहूर्त्ते शुभमासवर्षे सुवारवेलातिथिचन्द्रयोगे । काले निरुत्पातनिरीतिभावे सिंहासनावस्थविधिं वदन्ति ॥ स्थिरराशिस्थिते भानौ चन्द्रे च स्थिरभोदिते । आसनारम्भमिच्छन्ति गृहारम्भोऽपि येषु च ॥” एतेन गृहारम्भसिंहासनयोरारम्भः । तत्र क्रमः । “बाणवेदाग्निपक्षाणि सोपानानि युगैः क्रमात् चत्वारिंशत्तथा त्रिंशत् विंशतिः षोडशैव च ॥ सिंहान्वितानि ज्ञे यानि चरणानि युगः क्रमात् पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः । आदित्यादिदशाजानां भूपतीनां यथाक्रमम् ॥ राज्ञः स्वहस्तैरष्टाभिरायामपरिणाहयोः । राजपात्रमिदं नाम सोपानं पुरुषोन्नतम् ॥ तदर्द्धमानं तन्मध्ये राजासनमुदाहृतम् । अर्द्वोन्नतमिदं रम्यं प्रोक्तं कलिमहीभुजाम् । दिगष्टर्द्ध्यब्धिकोणः स्याद्ब्रह्मादीनां यथा- यथम् ॥” अथाष्टानां लक्षणानि । “गम्भारीकाष्ठघटितः पद्ममालोपचित्रितः । पद्मरागविचित्राङ्गः शुद्धः काञ्चनसंवृतः ॥ चरणाग्रे पद्मकापात् पद्मरागविचित्रिताः । दिक्ष्त्रष्टौ पुत्त्रिका राजद्वादशाङ्गलिसम्मिताः ॥ राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत् ॥ मित्रसिंहासनं पार्थ यदा रोहति भूपतिः । तदा सिंहासनं नाम सर्व्वं नयति तद्वलम् ॥ यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः । तदा घातेन हन्तव्यो बलेनापि सुरक्षितः ॥” * ॥ योगासनविशेषः । यथा, हठप्रदीपे । “गुल्फौ च वृषणस्याधः सीवन्धाः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके ॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गु लीः संप्रसार्य्यच व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ सिंहासनं भवेदेतत् पूजितं योगिभिः सदा । बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम् ॥”

"https://sa.wiktionary.org/w/index.php?title=सिंहासनम्&oldid=176324" इत्यस्माद् प्रतिप्राप्तम्