सिक्थम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिक्थम्, क्ली, (सिञ्चति क्षरतीति । सिच क्षरणे + “पातॄतुदिवचीति ।” उणा० २ । ७ । इति थक् ।) मधूच्छिष्टम् । इति मेदिनी ॥ मोम इति भाषा ॥ (यथा, -- “तिक्तासिक्थनिशायष्टीनक्ताह्वफलपत्रकैः । पटोलमालतीनिम्बपत्रैर्व्रण्यं घृतं स्मृतम् ॥” इति तिक्ताद्यघृतम् ॥ इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥) नीली । इति हेमचन्त्रः ॥
