सामग्री पर जाएँ

सितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सितः, पुं, (सिनोतीति । सि बन्धने + “अञ्जिधृ- सिभ्यः क्तः ।” उणा० ३ । ८९ । इति क्तः ।) शुक्लवर्णः । इत्यमरः । ३ । ३ । ८० ॥ शुक्रा- चार्य्यः । इति शब्दरचावली ॥ शरः । इति नानार्थध्वनिमञ्जरी ॥

सितः, त्रि, (सितः शुक्लवर्णोऽस्यास्तीति । अच् ।) शुक्लवर्णयुक्तः । इत्यमरः । ३ । ३ । ७९ ॥ (यथा, माघे । १ । २५ । सितं सितिम्ना सुतरां मुनेर्वपु- र्विसारिभिः सौधमिवाथ लम्भयन् ॥” * ॥ सो + क्तः ।) समाप्तः । निबद्धः । ज्ञातः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=सितः&oldid=176368" इत्यस्माद् प्रतिप्राप्तम्